Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 34

63 Mantra
3/34
Devata- इन्द्रो देवता Rishi- मधुच्छन्दा ऋषिः Chhand- पथ्या बृहती, Swara- मध्यमः
Mantra with Swara
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑। उपो॒पेन्नु म॑घव॒न् भूय॒ऽइन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते॥३४॥

क॒दा। च॒न। स्त॒रीः। अ॒सि॒। न। इ॒न्द्र॒। स॒श्च॒सि॒। दा॒शुषे॑। उपो॒पेत्युप॑ऽउप। इत्। नु। म॒घ॒व॒न्निति॑ मघऽवन्। भूयः॑। इत्। नु। ते॒। दान॑म्। दे॒वस्य॑। पृ॒च्य॒ते॒ ॥३४॥

Mantra without Swara
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥

कदा। चन। स्तरीः। असि। न। इन्द्र। सश्चसि। दाशुषे। उपोपेत्युपऽउप। इत्। नु। मघवन्निति मघऽवन्। भूयः। इत्। नु। ते। दानम्। देवस्य। पृच्यते॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कदा) कस्मिन् काले (चन) आकांक्षायाम् (स्तरीः) यः सुखैः स्तृणात्याच्छादयति सः। अत्र अवितॄ॰ (उणा॰३.१५८) इति ईः प्रत्ययः। (असि) भवसि (न) निषेधार्थे (इन्द्र) सुखप्रदेश्वर (सश्चसि) जानासि प्रापयसि वा। सश्चतीति गतिकर्मसु पठितम्। (निघं॰२.१४) (दाशुषे) विद्यादिदानकर्त्रे (उपोप) सामीप्ये (इत्) एति जानात्यनेन तद्विज्ञानम् (नु) क्षिप्रम्। न्विति क्षिप्रनामसु पठितम्। (निघं॰२.१५) (मघवन्) परमधनवन् (भूयः) पुनः (इत्) एव (नु) क्षिप्रे (ते) तव (दानम्) दीयमानम् (देवस्य) कर्मफलप्रदातुः (पृच्यते) संबध्यते। अयं मन्त्रः (शत॰२.३.४.३८) व्याख्यातः॥३४॥
Essence
यदीश्वरः कर्मफलप्रदाता न स्यात्, तर्हि न कश्चिदपि जीवो व्यवस्थया कर्मफलं प्राप्नुयादिति॥३४॥
Subject
स इन्द्रः कीदृश इत्युपदिश्यते॥
Anvaya
हे इन्द्र! यदा त्वं स्तरीरसि तदा दाशुषे कदाचनेन्नु न सश्चसि तदा हे मघवन्! देवस्य ते तव दानं तस्मै दाशुषे भूयः कदा चनेन्नु नोपोपपृच्यते॥३४॥