Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 31

63 Mantra
3/31
Devata- आदित्यो देवता Rishi- सप्तधृतिर्वारुणिर्ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः। दु॒रा॒धर्षं॒ वरु॑णस्य॥३१॥

महि॑। त्री॒णाम्। अवः॑। अ॒स्तु॒। द्यु॒क्षम्। मि॒त्रस्य॑। अ॒र्य॒म्णः। दु॒रा॒धर्ष॒मिति॑ दुःऽआ॒धर्ष॑म्। वरु॑णस्य ॥३१॥

Mantra without Swara
महि त्रीणामवो स्तु द्युक्षम्मित्रस्यार्यम्णः । दुराधर्षँवरुणस्य ॥

महि। त्रीणाम्। अवः। अस्तु। द्युक्षम्। मित्रस्य। अर्यम्णः। दुराधर्षमिति दुःऽआधर्षम्। वरुणस्य॥३१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(महि) महत् (त्रीणाम्) त्रयाणां सकाशात्। अत्र वा छन्दसि सर्वे विधयो भवन्तीति [अष्टा॰भा॰वा॰१.४.९] त्रेस्त्रय [अष्टा॰६.३.४६] इति त्रयादेशो न। (अवः) रक्षणादिकम् (अस्तु) भवतु (द्युक्षम्) द्यौर्नीतिः प्रकाशः क्षियति निवसति यस्मिंस्तत् (मित्रस्य) बाह्याभ्यन्तरस्थस्य प्राणस्य (अर्यम्णः) य ऋच्छति नियच्छत्याकर्षणेन पृथिव्यादीन् स सूर्यलोकस्तस्य। श्वन्नुक्षन्पूषन्॰ (उणा॰१.१५९) अनेनायं निपातितः। (दुराधर्षम्) दुःखेनाधर्षितुं योग्यं दृढम् (वरुणस्य) वायोर्जलस्य वा। वरुण इति पदनामसु पठितम्। (निघं॰५.४) अनेन प्राप्तिसाधनो गृह्यते। अयं मन्त्रः (शत॰२.३.४.३७) व्याख्यातः॥३१॥
Essence
अत्र पूर्वस्मान्मन्त्राद् ‘ब्रह्मणस्पते नः’ इति पदद्वयानुवृत्तिर्विज्ञेया। मनुष्यैस्सर्वेभ्यः पदार्थेभ्यः स्वस्यान्येषां च न्यायेन रक्षणं कृत्वा राज्यपालनं कार्यमिति॥३१॥
Subject
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते॥
Anvaya
हे ब्रह्मणस्पते! तव कृपया मित्रस्यार्यम्णो वरुणस्य च त्रीणां सकाशान्नोऽस्माकं द्युक्षं दुराधर्षं महदवोऽस्तु॥३१॥