Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 30

63 Mantra
3/30
Devata- ब्रह्मणस्पतिर्देवता Rishi- सप्तधृतिर्वारुणिर्ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
मा नः॒ शꣳसो॒ऽअर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य। रक्षा॑ णो ब्रह्मणस्पते॥३०॥

मा। नः॒। शꣳसः॑। अर॑रुषः। धू॒र्तिः। प्रण॑क्। मर्त्य॑स्य। रक्ष॑। नः॒। ब्र॒ह्म॒णः॒। प॒ते॒ ॥३०॥

Mantra without Swara
मा नः शँसो अररुषो धूर्तिः प्र णङ्नर्त्यस्य । रक्षा णो ब्रह्मणस्पते ॥

मा। नः। शꣳसः। अररुषः। धूर्तिः। प्रणक्। मर्त्यस्य। रक्ष। नः। ब्रह्मणः। पते॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मा) निषेधार्थे (नः) अस्माकम् (शंसः) शंसन्ति स्तुवन्ति यस्मिन् सः (अररुषः) राति ददाति स ररिवान्, न ररिवानररिवान् तस्य (धूर्तिः) हिंसा (प्रणक्) प्रणश्यतु। अत्र लोडर्थे लुङ्। मन्त्रे घसह्वरण॰ [अष्टा॰२.४.८०] इति च्लेर्लुक् च। (मर्त्यस्य) मनुष्यस्य। मर्त्य इति मनुष्यनामसु पठितम्। (निघं॰२.३)(रक्ष) पालय। अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः। (नः) अस्मान् (ब्रह्मणस्पते) जगदीश्वर। षष्ठयाः पति पुत्र॰ (अष्टा॰८.३.५३) इति विसर्जनीयस्य सकारादेशः। अयं मन्त्रः (शत॰२.३.४.३५) व्याख्यातः॥३०॥
Essence
मनुष्यैः सदा प्रशंसनीयानि कर्माणि कर्तव्यानि नेतराणि, कस्यचिद् द्रोहो दुष्टानां सङ्गश्च नैव कर्तव्यः, धर्मस्य रक्षेश्वरोपासनं च सदैव कर्तव्यमिति॥३०॥
Subject
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते॥
Anvaya
हे ब्रह्मणस्पते! भवत्कृपया नोऽस्माकं शंसो मा प्रणक् कदाचिन्मा प्रणश्यतु। याऽररुषः परस्वादायिनो मर्त्यस्य धूर्तिर्हिंसास्ति तस्याः सकाशान्नोऽस्मान् सततं रक्ष॥३०॥