Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 27

63 Mantra
3/27
Devata- अग्निर्देवता Rishi- श्रुतबन्धुर्ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
इड॒ऽएह्यदि॑त॒ऽएहि॒ काम्या॒ऽएत॑। मयि॑ वः काम॒धर॑णं भूयात्॥२७॥

इडे॑। आ। इ॒हि॒। अदि॑ते। आ। इ॒हि॒। काम्याः॑। आ। इ॒त॒। मयि॑ वः॒। का॒म॒धर॑ण॒मिति॑ काम॒ऽधर॑णम्। भू॒या॒त् ॥२७॥

Mantra without Swara
इडऽएह्यदित एहि काम्या एत । मयि वः कामधरणम्भूयात् ॥

इडे। आ। इहि। अदिते। आ। इहि। काम्याः। आ। इत। मयि वः। कामधरणमिति कामऽधरणम्। भूयात्॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इडे) इडा पृथिवी। इडेति पृथिवीनामसु पठितम्। (निघं॰१.१) (आ) समन्तात् (इहि) प्राप्नुयात्। अत्र सर्वत्र व्यत्ययः (अदिते) नाशरहिता राजनीतिः। अदितिरिति पदनामसु पठितम्। (निघं॰४.१) अनेनात्र प्राप्त्यर्थो गृह्यते। (आ) समन्तात् (इहि) प्राप्नुयात् (काम्याः) काम्यन्त इष्यन्ते ये पदार्थास्ते (आ) समन्तात् (इत) यन्तु प्राप्नुवन्तु (मयि) मनुष्ये (वः) तेषां काम्यानां पदार्थानाम् (कामधरणम्) कामानां धरणं स्थानम् (भूयात्)। अयं मन्त्रः (शत॰२.३.४.३४) व्याख्यातः॥२७॥
Essence
मनुष्यैः काम्यानां पदार्थानां कामना सततं कार्या, तत्प्राप्तये जगदीश्वरस्य प्रार्थना पुरुषार्थश्च। नहि कश्चिदप्येकक्षणमपि कामान् विहाय स्थातुमर्हति, तस्मादधर्म्यव्यवहारात् कामनां निवर्त्य धर्म्ये व्यवहारे यावती वर्धयितुं शक्या तावती नित्यं वर्द्धनीयेति॥२७॥
Subject
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते॥
Anvaya
हे जगदीश्वर! भवत्कृपयेडेयं पृथिवी मह्यं राज्यकरणायेहि समन्तात् प्राप्नुयात्। एवमदितिः सर्वसुखप्रापिका नाशरहिता राज्यनीतिरेहि प्राप्नुयात्। एवं हे भगवन्! पृथिवीराज्यनीतिभ्यां मह्यं काम्याः पदार्था एत समन्तात् प्राप्नुवन्तु तथा मयि वस्तेषां काम्यानां पदार्थानां कामधरणं भूयात्॥२७॥