Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 26

63 Mantra
3/26
Devata- अग्निर्देवता Rishi- सुबन्धुर्ऋषिः Chhand- स्वराट् बृहती, Swara- मध्यमः
Mantra with Swara
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ऽअघाय॒तः स॑मस्मात्॥२६॥

तम्। त्वा॒। शो॒चि॒ष्ठ। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धि। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒त इत्य॑घऽयतः। स॒म॒स्मा॒त् ॥२६॥

Mantra without Swara
तन्त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः । स नो बोधि श्रुधी हवमुरुष्या णोऽ अधायतः समस्मात् ॥

तम्। त्वा। शोचिष्ठ। दीदिव इति दीदिऽवः। सुम्नाय। नूनम्। ईमहे। सखिभ्य इति सखिऽभ्यः। सः। नः। बोधि। श्रुधि। हवम्। उरुष्य। नः। अघायत इत्यघऽयतः। समस्मात्॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तम्) जगदीश्वरम् (त्वा) त्वाम् (शोचिष्ठ) पवित्रतम (दीदिवः) प्रकाशमयानन्दप्रद। अत्र दिवुधातोश्छन्दसि लिट् [अष्टा॰३.२.१०५] इति लिट्। क्वसुश्च [अष्टा॰३.२.१०७] इति लिटः स्थाने क्वसुः। छन्दस्युभयथा [अष्टा॰३.४.११७] इति लिडादेशस्य क्वसोः सार्वधातुकत्वादिडभावः। तुजादीनां दीर्घोऽभ्यासस्य [अष्टा॰६.१.७] इत्यभ्यासदीर्घः। मतुवसो रुः सम्बुद्धौ छन्दसि [अष्टा॰८.३.१] इति रुरादेशश्च। (सुम्नाय) सुखाय। सुम्नमिति सुखनामसु पठितम्। (निघं॰३.९) (नूनम्) निश्चयार्थे (ईमहे) याचामहे। ईमह इति याच्ञाकर्मसु। (निघं॰३.१९) (सखिभ्यः) मित्रेभ्यः (सः) जगदीश्वरः (नः) अस्मानस्माकं वा (बोधि) बोधयति। अत्र लडर्थे लुङ् बहुलं छन्दसि [अष्टा॰६.४.७३] इत्य[भावोऽन्तर्गतो ण्यर्थश्च। (श्रुधि) शृणु। अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः। बहुलं छन्दसि [अष्टा॰२.४.७३] इति श्नोर्लुक्। श्रुशृणु॰ [अष्टा॰६.४.१०२] इति हेर्ध्यादेशश्च। (हवम्) श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञम् (उरुष्य) रक्ष। अत्र कण्ड्वादि [अष्टा॰३.१.२७] आकृतिगणत्वादुरुषशब्दाद् यक्, ततोऽन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः। (नः) अस्मान्। अत्र। नश्च धातुस्थोरुषुभ्यः। (अष्टा॰८.४.२६) इति णकारादेशः। (अघायतः) यः परस्याघमिच्छत्यघायति ततः। आचार्यप्रवृत्तिर्ज्ञापयति भवत्यघशब्दाच्छन्दसि परेच्छायां क्यजिति, यदयमश्वाघस्यादिति क्यचि प्रकृत ईत्वबाधनार्थमाकारं शास्ति (अष्टा॰३.१.८) अस्मिन् सूत्रे भाष्यकारस्य व्याख्यानाशयेनेदं सिद्ध्यतीति बोध्यम्। (समस्मात्) सर्वस्मात्। समशब्दोऽत्र सर्वपर्यायः। अयं मन्त्रः (शत॰२.३.४.३१-३३) व्याख्यातः॥२६॥
Essence
सर्वैर्मनुष्यैः स्वार्थं स्वमित्रार्थं सर्वप्राण्यर्थं च सुखप्राप्तये परमेश्वरः प्रार्थनीयस्तथैवाचरणं च कार्यम्। प्रार्थितः सन् जगदीश्वरोऽधर्मान्निवृत्तिमिच्छुकान् मनुष्यान् स्वसत्तया सर्र्वेभ्यः पापेभ्यो निवर्त्तयति, तथैव स्वविचारपरमपुरुषार्थाभ्यां सर्वेभ्यः पापेभ्यो निवर्त्य धर्माचरणे सर्वैर्मनुष्यैर्नित्यं प्रवर्तितव्यमिति बोध्यम्॥२६॥
Subject
पुनः स कीदृश इत्युपदिश्यते॥
Anvaya
हे शोचिष्ठ दीदिवो जगदीश्वर! वयं नोऽस्माकं सखिभ्यश्च नूनं सुम्नाय तं त्वामीमहे, यो भवान् नोऽस्मान् बोधि सम्यग्विज्ञानं बोधयति, सः त्वं नोऽस्माकं हवं श्रुधि कृपया शृणु, नोऽस्मान् समस्मात् सर्वस्मादघायतः परपीडाकरणरूपात् पापादुरुष्य सततं पृथक् रक्ष॥२६॥