Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 25

63 Mantra
3/25
Devata- अग्निर्देवता Rishi- सुबन्धुर्ऋषिः Chhand- भूरिक् बृहती, Swara- मध्यमः
Mantra with Swara
अग्ने॒ त्वं नो॒ऽअन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मꣳ र॒यिं दाः॑॥२५॥

अग्ने॑। त्वम्। नः॒। अन्त॑मः। उ॒त। त्रा॒ता। शि॒वः। भ॒व॒। व॒रू॒थ्यः᳖। वसुः॑। अ॒ग्निः। वसु॑श्रवा॒ इति॒ वसु॑ऽश्रवाः। अच्छ॑। न॒क्षि॒। द्यु॒मत्त॑म॒मिति॑ द्यु॒मत्ऽत॑मम्। र॒यिम्। दाः॒ ॥२५॥

Mantra without Swara
अग्ने त्वन्नोऽअन्तमऽउत त्राता शिवो भवा वरूथ्यः । वसुरग्निर्वसुश्रवा अच्छानक्षि द्युमत्तमँ रयिं दाः ॥

अग्ने। त्वम्। नः। अन्तमः। उत। त्राता। शिवः। भव। वरूथ्यः। वसुः। अग्निः। वसुश्रवा इति वसुऽश्रवाः। अच्छ। नक्षि। द्युमत्तममिति द्युमत्ऽतमम्। रयिम्। दाः॥२५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्ने) सर्वाभिरक्षकेश्वर (त्वम्) करुणामयः (नः) अस्माकमस्मभ्यं वा (अन्तमः) य आत्मान्तःस्थोऽनिति जीवयति सोऽतिशयितः। स उ प्राणस्य प्राणः॥ केनोपनिषत्॥ खं॰१।मं॰२॥ अनेनात्मान्तःस्थोऽन्तर्यामी गृह्यते (उत) अपि (त्राता) रक्षकः (शिवः) मङ्गलमयो मङ्गलकारी (भव) अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः। (वरूथ्यः) यो वरूथेषु श्रेष्ठेषु गुणकर्म्मस्वभावेषु भवः (वसुः) वसन्ति सर्वाणि भूतानि यस्मिन् यो वा सर्वेषु भूतेषु वसति सः (अग्निः) विज्ञानप्रकाशमयः (वसुश्रवाः) वसूनि सर्वाणि श्रवांसि श्रवणानि यस्य सः (अच्छ) श्रेष्ठार्थे निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः। (नक्षि) सर्वत्र व्याप्तोऽसि। अत्र णक्ष गतावित्यस्माल्लटि मध्यमैकवचने बहुलं छन्दसि [अष्टा॰२.४.७३] इति शपो लुक्। (द्युमत्तमम्) द्यौः प्रशस्तः प्रकाशो विद्यते यस्मिंस्तदतिशयितस्तम् (रयिम्) विद्याचक्रवर्त्यादिधनसमूहम् (दाः) देहि। अत्र लोडर्थे लुङ् बहुलं छन्दस्यामाङ्॰ [अष्टा॰६.४.७५] अनेनाडभावश्च। अयं मन्त्रः (शत॰२.३.४.३१) व्याख्यातः॥२५॥
Essence
मनुष्यैरित्थं वेदितव्यं परमेश्वरं विहाय नोऽस्माकं कश्चिदन्यो रक्षको नास्तीति, कुतस्तस्य सर्वशक्तिमत्त्वेन सर्वत्राभिव्यापकत्वादिति॥२५॥
Subject
पुनः स कीदृश इत्युपदिश्यते॥
Anvaya
हे अग्ने! यस्त्वं वसुश्रवा वसुरग्निर्नक्षि सर्वत्र व्याप्तोऽसि, स त्वं नोऽस्माकमन्तमस्त्राता वरूथ्यः शिवो भव उतापि नोऽस्मभ्यं द्युमत्तमं रयिमच्छ दाः सम्यग्देहि॥२५॥