Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 24

63 Mantra
3/24
Devata- अग्निर्देवता Rishi- वैश्वामित्रो मधुच्छन्दा ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व। सच॑स्वा नः स्व॒स्तये॑॥२४॥

सः। नः॒। पि॒तेवेति॑ पि॒ताऽइ॑व। सू॒नवे॑। अग्ने॑। सू॒पा॒य॒न इति॑ सुऽउ॒पा॒य॒नः। भ॒व॒। सच॑स्व। नः॒। स्व॒स्तये॑ ॥२४॥

Mantra without Swara
स नः पितेव सूनवे ग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥

सः। नः। पितेवेति पिताऽइव। सूनवे। अग्ने। सूपायन इति सुऽउपायनः। भव। सचस्व। नः। स्वस्तये॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सः) जगदीश्वरः (नः) अस्मभ्यम् (पितेव) जनक इव (सूनवे) औरसाय सन्तानाय। सूनुरित्यपत्यनामसु पठितम्। (निघं॰२.२) (अग्ने) करुणामय विज्ञानस्वरूप सर्वपितः। (सूपायनः) सुष्ठूपगतमयनं ज्ञानं प्रापणं यस्मात् सः (भव) भवसि। अत्र लडर्थे लोट् (सचस्व) संयोजय। अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः। (नः) अस्मान् (स्वस्तये) सुखाय। अयं मन्त्रः (शत॰२.३.४.३०) व्याख्यातः॥२४॥
Essence
अत्रोपमालङ्कारः। हे सर्वपितरीश्वर! यथा कृपायमाणो विद्वान् पिता स्वसन्तानान् संरक्ष्य सुशिक्ष्य च विद्याधर्मसुशीलतादिषु संयोजयति, तथैव भवानस्मान् निरन्तरं रक्षित्वा श्रेष्ठेषु व्यवहारेषु संयोजयत्विति॥२४॥
Subject
अथाग्रिमेण मन्त्रेणेश्वर एवोपदिश्यते॥
Anvaya
हे अग्ने जगदीश्वर! यस्त्वं कृपया सूनवे पितेव नोऽस्मभ्यं सूपायनो भवसि, स त्वं नोऽस्मान् स्वस्तये सततं सचस्व संयोजय॥२४॥