Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 17

63 Mantra
3/17
Devata- अग्निर्देवता Rishi- अवत्सार ऋषिः Chhand- त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
त॒नू॒पाऽअ॑ग्नेऽसि त॒न्वं मे पाह्यायु॑र्दाऽअ॑ग्ने॒ऽस्यायु॑र्मे देहि वर्चो॒दाऽअ॑ग्नेऽसि॒ वर्चो॑ मे देहि। अग्ने॒ यन्मे॑ त॒न्वाऽऊ॒नं तन्म॒ऽआपृ॑ण॥१७॥

त॒नू॒पा इति॑ तनू॒ऽपाः। अ॒ग्ने॒। अ॒सि॒। त॒न्व᳖म्। मे॒। पा॒हि॒। आ॒यु॒र्दा इत्यायुः॒दाः। अ॒ग्ने॒। अ॒सि॒। आयुः॑। मे॒। दे॒हि॒। व॒र्च्चो॒दा इति॑ वर्च्चः॒ऽदाः। अ॒ग्ने॒। अ॒सि॒। वर्च्चः॑। मे॒। दे॒हि॒। अग्ने॑। यत्। मे॒। त॒न्वाः᳖ ऊ॒नम्। तत्। मे॒। आ। पृ॒ण॒ ॥१७॥

Mantra without Swara
तनूपाऽअग्नेसि तन्वम्मे पाह्यायुर्दा अग्ने स्यायुर्मे देहि वर्चादाऽअग्ने सि वर्चा मे देहि । अग्ने यन्मे तन्वाऽऊनन्तन्मे आ पृण ॥

तनूपा इति तनूऽपाः। अग्ने। असि। तन्वम्। मे। पाहि। आयुर्दा इत्यायुःदाः। अग्ने। असि। आयुः। मे। देहि। वर्च्चोदा इति वर्च्चःऽदाः। अग्ने। असि। वर्च्चः। मे। देहि। अग्ने। यत्। मे। तन्वाः ऊनम्। तत्। मे। आ। पृण॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तनूपाः) यस्तनूः सर्वपदार्थदेहान् पाति रक्षति स जगदीश्वरः, पालनहेतुर्भौतिको वा। (अग्ने) सर्वाभिरक्षकेश्वर, रक्षाहेतुर्भौतिको वा। (असि) अस्ति वा। अत्र सर्वत्र पक्षे व्यत्ययः। (तन्वम्) शरीरम्। अत्र वाच्छन्दसि [अष्टा॰६.१.१०६] इत्यमिपूर्व इत्यत्रानुवर्तनात् पूर्वरूपादेशो न भवति। (मे) मम (पाहि) पाति वा (आयुर्दाः) आयुःप्रदः (असि) भवति वा (आयुः) जीवनम् (मे) मह्यम् (देहि) ददाति वा (वर्च्चोदाः) यो वर्च्चो विज्ञानं ददातीति तत्प्राप्तिहेतुर्वा (अग्ने) सर्वविद्यामयेश्वर विद्याहेतुर्वा (असि) भवति वा (वर्च्चः) विद्याप्राप्तिं दीप्तिं वा (मे) मह्यम् (देहि) ददाति वा (अग्ने) कामानां प्रपूरकेश्वर, कामपूर्तिहेतुर्वा (यत्) यावद्यस्माद्वा (मे) मम (तन्वाः) अन्तःकरणाख्यस्य बाह्यस्य शरीरस्य वा (ऊनम्) अपर्याप्तम् (तत्) तावत् तस्माद्वा (मे) मम (आ) समन्तात् (पृण) पूरयति वा। अयं मन्त्रः (शत॰२.३.४.१९-२०) व्याख्यातः॥१७॥
Essence
अत्र श्लेषालङ्कारः। परमेश्वरेणास्मिञ्जगति यतः सर्वेभ्यः प्राणिभ्यः शरीरायुर्निमित्तविद्याप्रकाश-सर्वाङ्गपूर्तिर्निर्मिता, तस्मात् सर्वे पदार्थाः स्वस्वरूपं धारयन्ति। तथैवास्य सृष्टौ प्रकाशादिगुणवत्त्वादयमग्निरेतेषां मुख्यः साधकोऽस्तीति सर्वैर्वेदितव्यम्॥१७॥
Subject
अथैश्वरभौतिकौ किं कुरुत इत्युपदिश्यते॥
Anvaya
हे अग्ने जगदीश्वर! यद्यस्मात् त्वं तनूपा असि, तत् तस्मान्मे मम तन्वं पाहि। हे अग्ने! यद्यस्मात् त्वमायुर्दा असि, तत् तस्मान्मे मह्यं पूर्णमायुर्देहि। हे अग्ने! यद्यस्मात् त्वं वर्च्चोदा असि, तत् तस्मान्मे मह्यं वर्चः पूर्णविद्यां देहि। हे अग्ने! मे मम तन्वा यद्यावदूनं बुद्धिबलशौर्यादिकमपर्याप्तमस्ति तत् तावदापृण समन्तात् प्रपूरयेत्येकः॥१७॥ अयमग्निर्यद्यस्मात् तनूपा अस्ति, तत् तस्मान्मे मम जाठररूपेण तन्वं पाति। यद्यस्मादयमग्निरायुर्दा आयुर्निमित्तमस्ति, तत् तस्मान्मे मह्यमायुर्ददाति। यद्यस्मादयमग्निर्वर्च्चोदा अस्ति, तत् तस्माद् वर्च्चो दीप्तिं ददाति। अयमग्निर्यद्यावन्मे मम तन्वा ऊनमपर्याप्तं तत् तावत् समन्तात् प्रपूरयतीति द्वितीयः॥१७॥