Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 3 / Mantra 14

63 Mantra
3/14
Devata- अग्निर्देवता Rishi- देववातभरतावृषी Chhand- निचृत् अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआरो॒हाथा॑ नो वर्द्धया र॒यिम्॥१४॥

अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्द्ध॒य॒। र॒यिम् ॥१४॥

Mantra without Swara
अयन्ते योनिरृत्वियो यतो जातो अरोचथाः । तञ्जानन्नग्नऽआरोहाथा नो वर्धया रयिम् ॥

अयम्। ते। योनिः। ऋत्वियः। यतः। जातः। अरोचथाः। तम्। जानन्। अग्ने। आ। रोह। अथ। नः। वर्द्धय। रयिम्॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अयम्) वायुः (ते) तवेश्वरस्य (योनिः) निमित्तकारणम् (ऋत्वियः) ऋतुः प्राप्तोऽस्य सः, अत्र छन्दसि घस्। (अष्टा॰५.१.१०६) अनेन ऋतुशब्दाद् घस् प्रत्ययः। (यतः) यस्मात् (जातः) प्रादुर्भूतः (अरोचथाः) दीपयति। अत्र व्यत्ययो लडर्थे लुङ् (तम्) अग्निम् (जानन्) (अग्ने) जगदीश्वरो विद्युद्वा (आ) समन्तात् क्रियायोगे (रोह) उन्नतिं गमय गमयति वा (अथ) आनन्तर्ये। अत्र निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः। (नः) अस्माकम् (वर्द्धय) सर्वोत्कृष्टतां संपादय संपादयति वा। अत्र अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः। (रयिम्) पूर्वोक्तं धनम्। अयं मन्त्रः (शत॰२.३.४.१३) व्याख्यातः॥१४॥
Essence
मनुष्यैर्यः सर्वेषु कालेषु यथावद् योजनीयोऽस्ति, यो वायुनिमित्तेनोत्पद्यते, यो वानेककार्यसिद्धिकरत्वेन सर्वान् सुखयति, तं यथावद् विदित्वा संप्रयुज्य कार्याणि साधनीयानीति॥१४॥
Subject
पुनरीश्वरभौतिकावुपदिश्येते॥
Anvaya
हे अग्ने जगदीश्वर! ते तव सृष्टौ य ऋत्वियोग्निर्वायोः सकाशाज्जातः सन्नरोचथाः समन्तात् प्रदीपयति। यः सूर्यादिरूपेण दिवमारोह समन्ताद् रोहति, यो नोस्माकं रयिं वर्द्धयति, यस्याग्नेरयं वायुर्योनिरस्ति, तं जानंस्त्वं तेन नोऽस्माकं रयिं सार्वभौमराज्यादिसिद्धिं धनं वर्द्धय॥१४॥