Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 9

60 Mantra
29/9
Devata- त्वष्टा देवता Rishi- बृहदुक्थो वामदेव्य ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायतऽआ॒शुरश्वः॑।त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्त्तार॑मि॒ह य॑क्षि होतः॥९॥

त्वष्टा॑। वी॒रम्। दे॒वका॑म॒मिति॑ दे॒वऽका॑मम्। ज॒जा॒न॒। त्वष्टुः॑। अर्वा॑। जा॒य॒ते॒। आ॒शुः। अश्वः॑। त्वष्टा॑। इ॒दम्। विश्व॑म्। भुव॑नम्। ज॒जा॒न॒। ब॒होः। क॒र्त्तार॑म्। इ॒ह। य॒क्षि॒। हो॒त॒रिति॑ होतः ॥९ ॥

Mantra without Swara
त्वष्टा वीरन्देवकामञ्जजान त्वष्टुरर्वा जायत आशुरश्वः । त्वष्टेदँविश्वम्भुवनञ्जजान बहोः कर्तारमिह यक्षि होतः ॥

त्वष्टा। वीरम्। देवकाममिति देवऽकामम्। जजान। त्वष्टुः। अर्वा। जायते। आशुः। अश्वः। त्वष्टा। इदम्। विश्वम्। भुवनम्। जजान। बहोः। कर्त्तारम्। इह। यक्षि। होतरिति होतः॥९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वष्टा) विद्यादिसद्गुणैः प्रकाशमानः (वीरम्) (देवकामम्) यो देवान् विदुषः कामयते तम् (जजान) जनयति (त्वष्टुः) प्रदीप्ताच्छिक्षणात् (अर्वा) शीघ्रं गन्ता (जायते) (आशुः) तीव्रवेगः (अश्वः) तुरङ्गः (त्वष्टा) स्वात्मप्रकाशितः (इदम्) (विश्वम्) सर्वम् (भुवनम्) लोकजातम् (जजान) जनयति (बहोः) बहुविधस्य संसारस्य (कर्त्तारम्) (इह) अस्मिन् संसारे (यक्षि) यजसि सङ्गच्छसे (होतः) आदातः॥९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये विद्याकामान् मनुष्यान् विदुषः कुर्य्युर्ये सद्योजातशिक्षोऽश्व इव तीव्रवेगेन विद्याः प्राप्नोति, यथा बहुविधस्य संसारस्य स्रष्टेश्वरः सर्वान् व्यवस्थापयति, तथाऽध्यापकाऽध्येतारो भवन्तु॥९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतस्त्वं यथा त्वष्टा विद्वान् देवकामं वीरं जजान यथा त्वष्टुराशुरर्वाश्वो जायते, यथा त्वष्टेदं विश्वं भुवनं जजान, तं बहोः कर्त्तारमिह यक्षि तथा वयमपि कुर्याम॥९॥