Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 8

60 Mantra
29/8
Devata- सरस्वती देवता Rishi- बृहदुक्थो वामदेव्य ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञꣳ सर॑स्वती स॒ह रु॒द्रैर्न॑ऽआवीत्।इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त॥८॥

आ॒दि॒त्यैः। नः॒। भार॑ती। व॒ष्टु॒। य॒ज्ञम्। सर॑स्वती। स॒ह। रु॒द्रैः। नः॒। आ॒वी॒त्। इडा॑। उप॑हू॒तेत्युप॑ऽहूता। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॒। य॒ज्ञम्। नः॒। दे॒वीः॒। अ॒मृते॑षु। ध॒त्त॒ ॥८ ॥

Mantra without Swara
आदित्यैर्ना भारती वष्टु यज्ञँ सरस्वती सह रुद्रैर्नऽआवीत् । इडोपहूता वसुभिः सजोषा यज्ञन्नो देवीरमृतेषु धत्त ॥

आदित्यै। नः। भारती। वष्टु। यज्ञम्। सरस्वती। सह। रुद्रैः। नः। आवीत्। इडा। उपहूतेत्युपऽहूता। वसुभिरिति वसुऽभिः। सजोषा इति सऽजोषाः। यज्ञम्। नः। देवीः। अमृतेषु। धत्त॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आदित्यैः) पूर्णविद्याविद्भिः (नः) अस्मभ्यम् (भारती) सर्वविद्याधर्त्री सर्वथा पोषिका (वष्टु) कामयताम् (यज्ञम्) सङ्गतं योग्यं बोधम् (सरस्वती) प्रशस्तविज्ञानवती वाक् (सह) (रुद्रैः) मध्यमैर्विद्वद्भिः (नः) अस्मान् (आवीत्) प्राप्नुयात् (इडा) स्ताविका वाक् (उपहूता) यथावत् स्पर्द्धिता (वसुभिः) प्रथमकल्पैर्विद्वद्भिः (सजोषाः) समानैः सेविताः (यज्ञम्) प्राप्तव्यमानन्दम् (नः) अस्मान् (देवीः) त्रिविधा वाणी (अमृतेषु) नाशरहितेषु जीवादिपदार्थेषु (धत्त) धरत धत्त वा॥८॥
Essence
मनुष्यैरुत्तममध्यमनिकृष्टानां विदुषां सकाशाच्छ्रुता पठिता वा विद्यावाणी स्वीकार्य्या, न मूर्खाणां सकाशात्, सा वाणी मनुष्याणां सर्वदा सुखसाधिका भवति॥८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! भवान् या आदित्यैरुपदिष्टोपहूता भारती नो यज्ञं सम्पादयति तया सह नोऽस्मान् वष्टु या रुद्रैरुपदिष्टा सरस्वती नोऽस्मानावीत् या सजोषा इडा वसुभिरुपदिष्टा सती यज्ञं साध्नोति। हे जना! ता देवीरस्मानमृतेषु दध्युस्ता यूयमस्मभ्यं धत्त॥८॥