Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 60

60 Mantra
29/60
Devata- अग्न्यादयो देवताः Rishi- भारद्वाज ऋषिः Chhand- विराट् प्रकृतिः, प्रकृतिः Swara- धैवतः
Mantra with Swara
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराया॒ष्टाक॑पाल॒ऽइन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ता॒यैका॑दशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकवि॒ꣳशाभ्यां॑ वैरा॒जाभ्यां॑ पय॒स्या] बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॑ च॒रुः स॑वि॒त्रऽऔष्णि॑हाय त्रयस्त्रि॒ꣳशाय॑ रैव॒ताय॒ द्वाद॑शकपालः प्राजाप॒त्यश्च॒रुरदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्याऽअ॒ष्टाक॑पालः॥६०॥

अ॒ग्नये॑। गा॒य॒त्राय॑। त्रि॒वृत॒ इति॑ त्रि॒ऽवृते॑। राथ॑न्तरा॒येति॒ राथ॑म्ऽतराय। अ॒ष्टाक॑पाल॒ इत्य॒ष्टाऽक॑पालः। इन्द्रा॑य। त्रैष्टु॑भाय। त्रैऽस्तु॑भा॒येति॒ त्रैऽस्तु॑भाय। प॒ञ्च॒द॒शायेति॑ पञ्चऽद॒शाय॑। बार्ह॑ताय। एका॑दशकपाल॒ इत्येका॑दशऽकपालः। विश्वे॑भ्यः। दे॒वेभ्यः॑। जाग॑तेभ्यः। स॒प्त॒द॒शेभ्य॒ इति॑ सप्तऽद॒शेभ्यः॑। वै॒रू॒पैभ्यः॑। द्वाद॑शकपाल॒ इति॒ द्वाद॑शऽकपालः। मि॒त्रावरु॑णाभ्याम्। आनु॑ष्टुभाभ्याम्। आनु॑स्तुभाभ्या॒मित्यानु॑ऽस्तुभाभ्याम्। ए॒क॒वि॒ꣳशाभ्या॒मित्ये॑कवि॒ꣳशाभ्या॑म्। वै॒रा॒जाभ्या॑म्। प॒य॒स्या᳕। बृह॒स्पत॑ये। पाङ्क्ता॑य। त्रि॒ण॒वाय॑। त्रि॒न॒वायेति॑ त्रिऽन॒वाय॑। शा॒क्व॒राय॑। च॒रुः। स॒वि॒त्रे। औष्णि॑हाय। त्र॒य॒स्त्रिं॒शाये॑ति त्रयःऽत्रि॒ꣳशाय॑। रै॒व॒ताय॑। द्वाद॑शकपाल इति॒ द्वाद॑शऽकपालः। प्रा॒जा॒प॒त्य इति॑ प्राजाऽप॒त्यः। च॒रुः। अदि॑त्यै। विष्णु॑पत्न्या॒ इति॒ विष्णु॑ऽपत्न्यै। च॒रुः। अ॒ग्नये॑। वै॒श्वा॒न॒राय॑। द्वाद॑शकपाल॒ इति॒ द्वाद॑शऽकपालः। अनु॑मत्या॒ इत्यनु॑ऽमत्यै। अ॒ष्टाक॑पाल इत्य॒ष्टाऽक॑पालः ॥६० ॥

Mantra without Swara
अग्नये गायत्राय त्रिवृते राथन्तरायाष्टाकपालऽइन्द्राय त्रैष्टुभाय पञ्चदशाय बर्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशदपालो मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविँशाभ्याँ वैराजाभ्याम्पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्रऽऔष्णिहाय त्रयस्त्रिँशाय रैवताय द्वादशकपालः प्राजापत्यश्चरुरदित्यै विष्णुपत्न्यै चरुरग्नये वैश्वानराय द्वादशकपालो नुमत्या अष्टाकपालः ॥

अग्नये। गायत्राय। त्रिवृत इति त्रिऽवृते। राथन्तरायेति राथम्ऽतराय। अष्टाकपाल इत्यष्टाऽकपालः। इन्द्राय। त्रैष्टुभाय। त्रैऽस्तुभायेति त्रैऽस्तुभाय। पञ्चदशायेति पञ्चऽदशाय। बार्हताय। एकादशकपाल इत्येकादशऽकपालः। विश्वेभ्यः। देवेभ्यः। जागतेभ्यः। सप्तदशेभ्य इति सप्तऽदशेभ्यः। वैरूपैभ्यः। द्वादशकपाल इति द्वादशऽकपालः। मित्रावरुणाभ्याम्। आनुष्टुभाभ्याम्। आनुस्तुभाभ्यामित्यानुऽस्तुभाभ्याम्। एकविꣳशाभ्यामित्येकविꣳशाभ्याम्। वैराजाभ्याम्। पयस्या। बृहस्पतये। पाङ्क्ताय। त्रिणवाय। त्रिनवायेति त्रिऽनवाय। शाक्वराय। चरुः। सवित्रे। औष्णिहाय। त्रयस्त्रिंशायेति त्रयःऽत्रिꣳशाय। रैवताय। द्वादशकपाल इति द्वादशऽकपालः। प्राजापत्य इति प्राजाऽपत्यः। चरुः। अदित्यै। विष्णुपत्न्या इति विष्णुऽपत्न्यै। चरुः। अग्नये। वैश्वानराय। द्वादशकपाल इति द्वादशऽकपालः। अनुमत्या इत्यनुऽमत्यै। अष्टाकपाल इत्यष्टाऽकपालः॥६०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्नये) पावकाय (गायत्राय) गायत्रादिछन्दोविज्ञापिताय (त्रिवृते) यस्त्रिभिः सत्त्वरजस्तमोगुणैर्युक्तस्तस्मै (राथन्तराय) यो रथैः समुद्रादींस्तरति तस्मै (अष्टाकपालः) अष्टसु कपालेषु संस्कृतः (इन्द्राय) ऐश्वर्याय (त्रैष्टुभाय) त्रिष्टुप् छन्दसा प्रख्याताय (पञ्चदशाय) पञ्च दश च यस्मिन् सन्ति तस्मै (बार्हताय) बृहतां सम्बन्धिने (एकादशकपालः) एकादशसु कपालेषु संस्कृतः पाकः (विश्वेभ्यः) समस्तेभ्यः (देवेभ्यः) दिव्यगुणेभ्यो जनेभ्यः (जागतेभ्यः) जगतीबोधितेभ्यः (सप्तदशेभ्यः) एतत्सङ्ख्यया सङ्ख्यातेभ्यः (वैरूपेभ्यः) विविधस्वरूपेभ्यः (द्वादशकपालः) द्वादशसु कपालेषु संस्कृतः (मित्रावरुणाभ्याम्) प्राणोदानाभ्याम् (आनुष्टुभाभ्याम्) (एकविंशाभ्याम्) एतत्सङ्ख्यायुक्ताभ्याम् (वैराजाभ्याम्) विराट्छन्दोज्ञापिताभ्याम् (पयस्या) पयसि जले कुशलौ (बृहस्पतये) बृहतां पालकाय (पाङ्क्ताय) पङ्क्तिषु साधवे (त्रिणवाय) त्रिभिः कर्मोपासनाज्ञानैः स्तुताय (शाक्वराय) शक्तिजाय (चरुः) पाकः (सवित्रे) ऐश्वर्योत्पादकाय (औष्णिहाय) उष्णिग्बोधिताय (त्रयस्त्रिंशाय) एतत्सङ्ख्याताय (रैवताय) धनसम्बन्धिने (द्वादशकपालः) द्वादशसु कपालेषु संस्कृतः (प्राजापत्यः) प्रजापतिदेवताकः (चरुः) स्थालीपाकः (अदित्यै) अखण्डिताया अन्तरक्षिरूपायै (विष्णुपत्न्यै) विष्णुना व्यापकेन पालितायै (चरुः) पाकः (अग्नये) विद्युद्रूपाय (वैश्वानराय) विश्वेषु सर्वेषु नरेषु राजमानाय (द्वादशकपालः) (अनुमत्यै) यानुमन्यते तस्यै (अष्टाकपालः) अष्टसु कपालेषु संसाधितः॥६०॥
Essence
येऽग्न्यादिप्रयोगायाष्टविधादीनि यन्त्राणि निर्मिमीरंस्ते सृष्टैर्व्यक्तैः पदार्थैरनेकानि कार्याणि साद्धुं शक्नुयुरिति॥६०॥
Subject
कीदृशा जनाः कार्याणि साद्धुं शक्नुवन्तीत्याह॥
Anvaya
हे मनुष्याः! युष्माभिस्त्रिवृतेराथन्तराय गायत्रायाग्नयेऽष्टाकपालः पञ्चदशाय त्रैष्टुभाय बार्हतायेन्द्रायैकादशकपालो विश्वेभ्यो जागतेभ्यो सप्तदशेभ्यो वैरूपेभ्यो देवेभ्यो द्वादशकपाल आनुष्टुभाभ्यामेकविंशाभ्यां वैराजाभ्यां मित्रावरुणाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुरौष्णिहाय त्रयस्त्रिंशाय रैवताय सवित्रे द्वादशकपालः प्राजापत्यश्चरुरदित्यै विष्णुपत्न्यै चरुर्वैश्वानरायाग्नये द्वादशकपालोनुमत्या अष्टाकपालश्च निर्मातव्यः॥६०॥