Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 59

60 Mantra
29/59
Devata- अग्न्यादयो देवताः Rishi- भारद्वाज ऋषिः Chhand- भुरिगतिशक्वरी Swara- पञ्चमः
Mantra with Swara
अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ऽआग्ने॒यः कृ॒ष्णोऽजः सार॑स्व॒ती मे॒षी वा॑रु॒णः पेत्वः॑॥५९॥

अ॒ग्नये॑। अनी॑कवत॒ इन्यनी॑कऽवते। रोहि॑ताञ्जि॒रिति॒ रोहि॑तऽअञ्जिः। अ॒न॒ड्वान्। अ॒धोरा॑मा॒वित्य॒धःरा॑मौ। सा॒वि॒त्रौ। पौ॒ष्णौ। र॒ज॒तना॑भी॒ इति॑ रज॒तऽना॑भी। वै॒श्व॒दे॒वाविति॑ वैश्वऽदे॒वौ। पि॒शङ्गौ॑। तू॒प॒रौ। मा॒रु॒तः। क॒ल्माषः॑। आ॒ग्ने॒यः। कृ॒ष्णः। अ॒जः। सा॒र॒स्व॒ती। मे॒षी। वा॒रु॒णः। पेत्वः॑ ॥५९ ॥

Mantra without Swara
अग्नयेनीकवते रोहिताञ्जिरनड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौ तूपरौ मारुतः कल्माषऽआग्नेयः कृष्णो जः सारस्वती मेषी वारुणः पेत्वः ॥

अग्नये। अनीकवत इन्यनीकऽवते। रोहिताञ्जिरिति रोहितऽअञ्जिः। अनड्वान्। अधोरामावित्यधःरामौ। सावित्रौ। पौष्णौ। रजतनाभी इति रजतऽनाभी। वैश्वदेवाविति वैश्वऽदेवौ। पिशङ्गौ। तूपरौ। मारुतः। कल्माषः। आग्नेयः। कृष्णः। अजः। सारस्वती। मेषी। वारुणः। पेत्वः॥५९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्नये) विज्ञानादिगुणप्रकाशाय (अनीकवते) प्रशस्तसेनायुक्ताय (रोहिताञ्जिः) रोहिताः रक्ता अञ्जयो लक्षणानि यस्य सः (अनड्वान्) वृषभः (अधोरामौ) अधोभागे श्वेतवर्णौ (सावित्रौ) सवितृगुणौ (पौष्णौ) पूषदैवत्यौ (रजतनाभी) रजतवर्णनाभियुक्तौ (वैश्वदेवौ) (पिशङ्गौ) पीतवर्णौ (तूपरौ) अविद्यमानशृङ्गौ (मारुतः) मरुद्दैवत्यः (कल्माषः) (आग्नेयः) अग्निदैवत्यः (कृष्णः) (अजः) (सारस्वती) वाक्गुणः (मेषी) (वारुणः) जलगुणः (पेत्वः) शीघ्रगामी॥५९॥
Essence
अत्र पशूनां यावन्तो गुणा उक्तास्ते सर्वे गुणा एकस्मिन्नग्नौ संहिताः सन्तीति वेद्यम्॥५९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यूयं येऽनीकवतेऽग्नये रोहिताञ्जिरनड्वान् सावित्रावधोरामौ पौष्णौ रजतनाभी वैश्वदेवौ तूपरौ पिशङ्गौ मारुतः कल्माषः आग्नेयः कृष्णोऽजः सारस्वती मेषी वारुणः पेत्वश्चास्ति तान् यथा गुणं संप्रयोजय॥५९॥