Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 57

60 Mantra
29/57
Devata- वादयितारो वीरा देवताः Rishi- भारद्वाज ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
आमूर॑ज प्र॒त्याव॑र्त्तये॒माः के॑तु॒मद् दु॑न्दु॒भिर्वा॑वदीति।समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु॥५७॥

आ। अ॒मूः। अ॒ज॒। प्र॒त्याव॑र्त्त॒येति॑ प्रति॒ऽआव॑र्त्तय। इ॒माः। के॒तु॒मदिति॑ केतु॒मत्। दु॒न्दु॒भिः। वा॒व॒दी॒ति॒। सम्। अ॑श्वपर्णा॒ इत्यश्व॑ऽपर्णाः। चर॑न्ति। नः॒। नरः॑। अ॒स्माक॑म्। इ॒न्द्र॒। र॒थिनः॑। ज॒य॒न्तु॒ ॥५७ ॥

Mantra without Swara
आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति । समश्वपर्णाश्चरन्ति नो नरो स्माकमिन्द्र रथिनो जयन्तु ॥

आ। अमूः। अज। प्रत्यावर्त्तयेति प्रतिऽआवर्त्तय। इमाः। केतुमदिति केतुमत्। दुन्दुभिः। वावदीति। सम्। अश्वपर्णा इत्यश्वऽपर्णाः। चरन्ति। नः। नरः। अस्माकम्। इन्द्र। रथिनः। जयन्तु॥५७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) समन्तात् (अमूः) शत्रुसेनाः (अज) प्रक्षिप (प्रत्यावर्त्तय) (इमाः) स्वसेनाः (केतुमत्) केतुः प्रशस्ता ध्वजा यासु ताः। अत्र स्त्रीप्रत्ययस्य लुक्। (दुन्दुभिः) (वावदीति) (सम्) (अश्वपर्णाः) अश्वानां पर्णानि पालनानि यासु सेनासु ताः (चरन्ति) गच्छन्ति (नः) अस्मान् (नरः) नायकाः (अस्माकम्) (इन्द्र) परमैश्वर्य्ययुक्त (रथिनः) प्रशस्तरथयुक्ता वीराः (जयन्तु)॥५७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये राजपुरुषाः शत्रुसेना निवर्त्तयितुं स्वसेना योधयितुं समर्थाः स्युस्ते सर्वत्र शत्रूञ्जेतुं शक्नुयुः॥५७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे इन्द्र! त्वममूरज इमाः केतुमत् प्रत्यावर्त्तय यथा दुन्दुभिर्वावदीति तथा नोऽश्वपर्णाः सञ्चरन्ति, येऽस्माकं रथिनो नरः शत्रूञ्जयन्तु, ते सत्कृताः स्युः॥५७॥