Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 43

60 Mantra
29/43
Devata- वीरा देवताः Rishi- भारद्वाज ऋषिः Chhand- जगती Swara- निषादः
Mantra with Swara
रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः। अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑॥४३॥

रथे॑। तिष्ठ॑न्। न॒य॒ति॒। वा॒जिनः॑। पु॒रः। यत्र॑य॒त्रेति॒ यत्र॑ऽयत्र। का॒मय॑ते। सु॒षा॒र॒थिः। सु॒सा॒र॒थिरिति॑ सुऽसार॒थिः। अ॒भीशू॑नाम्। म॒हि॒मान॑म्। प॒ना॒य॒त॒। मनः॑। प॑श्चात्। अनु॑। य॒च्छ॒न्ति॒। र॒श्मयः॑ ॥४३ ॥

Mantra without Swara
रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनाम्महिमानम्पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥

रथे। तिष्ठन्। नयति। वाजिनः। पुरः। यत्रयत्रेति यत्रऽयत्र। कामयते। सुषारथिः। सुसारथिरिति सुऽसारथिः। अभीशूनाम्। महिमानम्। पनायत। मनः। पश्चात्। अनु। यच्छन्ति। रश्मयः॥४३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(रथे) रमणीये भूजलान्तरिक्षगमके याने (तिष्ठन्) (नयति) गमयति (वाजिनः) अश्वानग्न्यादीन् वा (पुरः) अग्रे (यत्रयत्र) यस्मिन् यस्मिन् सङ्ग्रामे देशे वा (कामयते) (सुषारथिः) शोभनश्चासौ सारथिश्चाऽश्वानामग्न्यादीनां वा नियन्ता (अभीशूनाम्) अभितः सद्यो गन्तॄणाम् (महिमानम्) महत्त्वम् (पनायत) प्रशंसत (मनः) (पश्चात्) (अनु) (यच्छन्ति) निगृह्णन्ति (रश्मयः) रज्जवः किरणा वा॥४३॥
Essence
यदि राजराजपुरुषाः साम्राज्यं ध्रुवं विजयं चेच्छेयुस्तर्हि सुशिक्षितानमात्यानश्वाद्यन्या चालयित्री अलंसामग्र्यध्यक्षाञ्छस्त्राऽस्त्राणि शरीरात्मबलं चावश्यं सम्पादयेयुः॥४३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वांसः! सुषारथी रथे तिष्ठन् यत्रयत्र कामयते, तत्र तत्र वाजिनः पुरो नयति। येषां मनः सुशिक्षितं हस्तगता रश्मयः पश्चादश्वाननुयच्छन्ति तेषामभीशूनां महिमानं यूयं पनायत॥४३॥