Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 4

60 Mantra
29/4
Devata- अग्निर्देवता Rishi- बृहदुक्थो वामदेव्य ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स्ती॒र्णं ब॒र्हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथि॒व्याम्।दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः॑ स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु॥४॥

स्ती॒र्णम्। ब॒र्हिः। सु॒ष्टरी॑म। सु॒स्तरी॒मेति॑ सु॒ऽस्तरी॑म। जु॒षा॒णा। उ॒रु। पृ॒थु। प्रथ॑मानम्। पृ॒थि॒व्याम्। दे॒वेभिः॑। यु॒क्तम्। अदि॑तिः। स॒जोषा॑ इति॑ स॒ऽजोषाः॑। स्यो॒नम्। कृ॒ण्वा॒ना। सु॒वि॒ते। द॒धा॒तु॒ ॥४ ॥

Mantra without Swara
स्तीर्णम्बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानम्पृथिव्याम् । देवेभिर्युक्तमदितिः सजोषाः स्योनङ्कृण्वान सुविते दधातु ॥

स्तीर्णम्। बर्हिः। सुष्टरीम। सुस्तरीमेति सुऽस्तरीम। जुषाणा। उरु। पृथु। प्रथमानम्। पृथिव्याम्। देवेभिः। युक्तम्। अदितिः। सजोषा इति सऽजोषाः। स्योनम्। कृण्वाना। सुविते। दधातु॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(स्तीर्णम्) सर्वतोऽङ्गोपाङ्गैराच्छादितं यानम् (बर्हिः) अन्तरिक्षमुदकं वा (सुष्टरीम) सुष्ठु स्तृणीम। अत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः। (जुषाणा) सेवमाना (उरु) बहु (पृथु) विस्तीर्णम् (प्रथमानम्) प्रख्यातम् (पृथिव्याम्) भूमौ (देवेभिः) दिव्यैः पदार्थैः (युक्तम्) (अदितिः) नाशरहिता (सजोषाः) समानैः सेविता (स्योनम्) सुखम् (कृण्वाना) कुर्वती (सुविते) प्रेरिते (दधातु)॥४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! या पृथिव्यादिषु व्याप्ताऽखण्डिता विद्युद्विस्तीर्णानि कार्याणि संसाध्य सुखं जनयति, तां कार्येषु प्रयुज्य प्रयोजनसिद्धिं सम्पादयत॥४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! वयं यथा पृथिव्यामुरु पृथु प्रथमानं स्तीर्णं बर्हिर्जुषाणा सजोषा देवेभिर्युक्तं स्योनं कृण्वानाऽदितिर्विद्युत् सर्वं सुविते दधातु तां सुष्टरीम तथा त्वं प्रयतस्व॥४॥