Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 3

60 Mantra
29/3
Devata- अग्निर्देवता Rishi- बृहदुक्थो वामदेव्य ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चाऽसि॒ मेध्य॑श्च सप्ते।अ॒ग्निष्ट्वा॑ दे॒वैर्वसु॑भिः स॒जोषाः॑ प्र॒ीतं वह्निं॑ वहतु जा॒तवे॑दाः॥३॥

ईड्यः॑। च॒। असि॑। वन्द्यः॑। च॒। वा॒जि॒न्। आ॒शुः। च॒। असि॑। मेध्यः॑। च॒। स॒प्ते॒। अ॒ग्निः। त्वा॒। दे॒वैः। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। प्री॒तम्। वह्नि॑म्। व॒ह॒तु॒। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः ॥३ ॥

Mantra without Swara
ईड्यश्चासि वन्द्यश्च वाजिन्नाशुश्चासि मेध्यश्च सप्ते । अग्निष्ट्वा देवैर्वसुभिः सजोषाः प्रीतँवह्निँवहतु जातवेदाः ॥

ईड्यः। च। असि। वन्द्यः। च। वाजिन्। आशुः। च। असि। मेध्यः। च। सप्ते। अग्निः। त्वा। देवैः। वसुभिरिति वसुऽभिः। सजोषा इति सऽजोषाः। प्रीतम्। वह्निम्। वहतु। जातवेदा इति जातऽवेदाः॥३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ईड्यः) स्तोतुमर्हः (च) (असि) (वन्द्यः) वन्दितुं नमस्कर्त्तुं योग्यः (च) (वाजिन्) प्रशस्तवेगवान् (आशुः) शीघ्रगामी (च) (असि) (मेध्यः) संगमनीयः (च) (सप्ते) अश्व इव पुरुषार्थिन् (अग्निः) पावकः (त्वा) त्वाम् (देवैः) दिव्यगुणैः (वसुभिः) पृथिव्यादिभिः सह (सजोषाः) समानप्रीतिः (प्रीतम्) प्रशस्तम् (वह्निम्) वोढारम् (वहतु) (जातवेदाः) जातवित्तः॥३॥
Essence
ये मनुष्याः पृथिव्यादिविकारैर्यानादीनि रचयित्वा तत्र वेगवन्तं वोढारमग्निं संप्रयुञ्जीरंस्ते प्रशंसनीया मान्याः स्युः॥३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे वाजिन् सप्ते शिल्पिन् विद्वन्! यतो जातवेदाः सजोषाः सन् भवान् वसुभिर्देवैः सह प्रीतं वह्निं वहतु, यं च त्वा त्वामग्निर्वहतु तस्मात् त्वमीड्यश्चासि आशुश्चासि मेध्यश्चासि॥३॥