Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 29

60 Mantra
29/29
Devata- अन्तरिक्षं देवता Rishi- भार्गवो जमदग्निर्ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ऽअग्रे॒ऽअह्ना॑म्।व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ऽअदि॑तये स्यो॒नम्॥२९॥

प्रा॒चीन॑म्। ब॒र्हिः। प्र॒दिशेति॑ प्र॒ऽदिशा॑। पृ॒थि॒व्याः। वस्तोः॑। अ॒स्याः। वृ॒ज्य॒ते॒। अग्रे॑। अह्ना॑म्। वि। ऊँ॒ इ॑त्यूँ। प्र॒थ॒ते॒। वि॒त॒रमिति॑ विऽत॒रम्। वरी॑यः। दे॒वेभ्यः॑। अदि॑तये। स्यो॒नम् ॥२९ ॥

Mantra without Swara
प्राचीनम्बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् । व्यु प्रथते वितरँवरीयो देवेभ्योऽअदितये स्योनम् ॥

प्राचीनम्। बर्हिः। प्रदिशेति प्रऽदिशा। पृथिव्याः। वस्तोः। अस्याः। वृज्यते। अग्रे। अह्नाम्। वि। ऊँ इत्यूँ। प्रथते। वितरमिति विऽतरम्। वरीयः। देवेभ्यः। अदितये। स्योनम्॥२९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्राचीनम्) प्राक्तनम् (बर्हिः) अन्तरिक्षवद् व्यापकं ब्रह्म (प्रदिशा) प्रकृष्टया दिशा निर्देशेन (पृथिव्याः) भूमेः (वस्तोः) दिनात् (अस्याः) (वृज्यते) त्यज्यते (अग्रे) प्रातः समये (अह्नाम्) दिनानाम् (वि) (उ) (प्रथते) प्रकटयति (वितरम्) विशेषेण सन्तारकम् (वरीयः) अतिशयेन वरणीयं वरम् (देवेभ्यः) विद्वद्भ्यः (अदितये) अविनाशिने (स्योनम्) सुखम्॥२९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वद्भ्यः सुखं दद्युस्ते सर्वोत्तमं सुखं लभेरन्। यथाऽऽकाशं सर्वासु दिक्षु पृथिव्यादिषु च व्याप्तमस्ति, तथा जगदीश्वरः सर्वत्र व्याप्तोऽस्ति। ये तमीदृशं परमात्मानं प्रातरुपासते, ते धर्मात्मानः सन्तो विस्तीर्णसुखा जायन्ते॥२९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यदस्याः पृथिव्या मध्ये प्राचीनं बर्हिर्वस्तोर्वृज्यते अह्नामग्रे देवेभ्य उ अदितये वितरं वरीयः स्योनं विप्रथते तद्यूयं प्रदिशा विजानीत प्राप्नुत च॥२९॥