Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 28

60 Mantra
29/28
Devata- अग्निर्देवता Rishi- भार्गवो जमदग्निर्ऋषिः Chhand- स्वराड् बृहती Swara- मध्यमः
Mantra with Swara
आ॒जुह्वा॑न॒ऽईड्यो॒ वन्द्य॒श्चाया॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑।त्वं दे॒वाना॑मसि यह्व॒ होता॒ सऽए॑नान् यक्षीषि॒तो यजी॑यान्॥२८॥

आ॒जुह्वा॑न॒ इत्या॒ऽजुह्वा॑नः। ईड्यः॑। वन्द्यः॑। च॒। आ। या॒हि॒। अ॒ग्ने॒। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। त्वम्। दे॒वाना॑म्। अ॒सि॒। य॒ह्व॒। होता॑। सः। ए॒ना॒न्। य॒क्षि॒। इ॒षि॒तः। यजी॑यान् ॥२८ ॥

Mantra without Swara
आजुह्वानऽईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः । त्वन्देवानामसि यह्व होता सऽएनान्यक्षीषितो यजीयान् ॥

आजुह्वान इत्याऽजुह्वानः। ईड्यः। वन्द्यः। च। आ। याहि। अग्ने। वसुभिरिति वसुऽभिः। सजोषा इति सऽजोषाः। त्वम्। देवानाम्। असि। यह्व। होता। सः। एनान्। यक्षि। इषितः। यजीयान्॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आजुह्वानः) समन्तात् स्पर्द्धमानः (ईड्यः) प्रशंसितुं योग्यः (वन्द्यः) नमस्करणीयः (च) (आ) (याहि) आगच्छ (अग्ने) पावकवत्पवित्र विद्वन्! (वसुभिः) वासहेतुभूतैर्विद्वद्भिस्सह (सजोषाः) समानप्रीतिसेविनः (त्वम्) (देवानाम्) विदुषाम् (असि) (यह्व) महागुणविशिष्ट। यह्व इति महन्नामसु पठितम्॥ (निघ॰३।३) (होता) दाता (सः) (एनान्) (यक्षि) सङ्गच्छ (इषितः) प्रेरितः (यजीयान्) अतिशयेन यया सङ्गन्ता॥२८॥
Essence
यदि मनुष्याः पवित्रात्मनां प्रशसितानां विदुषां सङ्गेन स्वयं पवित्रात्मानो भवेयुस्ते धर्मात्मानः सन्तः सर्वत्र सत्कृताः स्युः॥२८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे यह्वाग्ने! यस्त्वं देवानां होता यजीयानसि। इषितः सेन्नेनान् यक्षि, स त्वं वसुभिः सह सजोषा आजुह्वान ईड्यो वन्द्यश्चैतानायाहि॥२८॥