Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 20

60 Mantra
29/20
Devata- अग्निर्देवता Rishi- भार्गवो जमदग्निर्ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
हिर॑ण्यशृ॒ङ्गोऽयो॑ऽअस्य॒ पादा॒ मनो॑जवा॒ऽअव॑र॒ऽइन्द्र॑ऽआसीत्।दे॒वाऽइद॑स्य हवि॒रद्यमाय॒न्योऽअर्व॑न्तं प्रथ॒मोऽअ॒ध्यति॑ष्ठत्॥२०॥

हिर॑ण्यशृङ्ग॒ इति॒ हिर॑ण्यऽशृङ्गः। अयः॑। अ॒स्य॒। पादाः॑। मनो॑जवा॒ इति॒ मनः॑ऽजवाः। अव॑रः। इन्द्रः॑। आ॒सी॒त्। दे॒वाः। इत्। अ॒स्य॒। ह॒वि॒रद्य॒मिति॑ हविः॒ऽअद्य॑म्। आ॒य॒न्। यः। अर्व॑न्तम्। प्र॒थ॒मः। अ॒ध्यति॑ष्ठदित्यधि॒ऽअति॑ष्ठत् ॥२० ॥

Mantra without Swara
हिरण्यशृङ्गो योऽअस्य पादा मनोजवाऽअवर इन्द्रऽआसीत् । देवाऽइदस्य हविरद्यमायन्योऽअर्वन्तम्प्रथमो अध्यतिष्ठत् ॥

हिरण्यशृङ्ग इति हिरण्यऽशृङ्गः। अयः। अस्य। पादाः। मनोजवा इति मनःऽजवाः। अवरः। इन्द्रः। आसीत्। देवाः। इत्। अस्य। हविरद्यमिति हविःऽअद्यम्। आयन्। यः। अर्वन्तम्। प्रथमः। अध्यतिष्ठदित्यधिऽअतिष्ठत्॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(हिरण्यशृङ्गः) हिरण्यानि तेजांसि शृङ्गाणीव यस्य स (अयः) सुवर्णम्। अय इति हिरण्यनामसु पठितम्॥ (निघ॰१।२) (अस्य) (पादाः) पद्यन्ते गच्छन्ति यैस्ते (मनोजवाः) मनसो जवो वेग इव जवो वेगो येषान्ते (अवरः) नवीनः (इन्द्रः) परमैश्वर्यहेतुविद्युदिव सभेशः (आसीत्) भवेत् (देवाः) विद्वांसः सभासदः (इत्) एव (अस्य) (हविरद्यम्) दातुमर्हमत्तुं योग्यं च (आयन्) प्राप्नुयुः (यः) (अर्वन्तम्) अश्ववत् प्राप्नुवन्तं वह्निम् (प्रथमः) आदिमः (अध्यतिष्ठत्) उपरि तिष्ठेत्॥२०॥
Essence
ये मनुष्या अग्न्यादिपदार्थानां गुणकर्मस्वभावान् यथावञ्जानीयुस्ते बहून्यद्भुतानि कार्याणि साद्धुं शक्नुयुः। ये प्रीत्या राजकार्याणि प्राप्नुयुस्ते सत्कारं ये नाशयेयुस्ते दण्डं चावश्यं प्राप्नुयुः॥२०॥
Subject
मनुष्यैरग्न्यादिपदार्थगुणविज्ञानेन किं साध्यमित्याह॥
Anvaya
हे मनुष्याः! योऽवरो हिरण्यशृङ्ग इन्द्र आसीद् यः प्रथमोऽर्वन्तमयश्चाभ्यतिष्ठदस्य पादा मनोजवाः स्युर्देवा अस्य हविरद्यमिदायन् तं यूयमाश्रयत॥२०॥