Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 15

60 Mantra
29/15
Devata- अग्निर्देवता Rishi- भार्गवो जमदग्निर्ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
त्रीणि॑ तऽआहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे।उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न् यत्रा॑ तऽआ॒हुः प॑र॒मं ज॒नित्र॑म्॥१५॥

त्रीणि॑। ते॒। आ॒हुः॒। दि॒वि। बन्ध॑नानि। त्रीणि॑। अ॒प्स्वित्य॒प्ऽसु। त्रीणि॑। अ॒न्तरित्य॒न्तः। स॒मु॒द्रे। उ॒तेवेत्यु॒तऽइ॑व। मे॒। वरु॑णः। छ॒न्त्सि॒। अ॒र्व॒न्। यत्र॑। ते॒। आ॒हुः। प॒र॒मम्। ज॒नित्र॑म् ॥१५ ॥

Mantra without Swara
त्रीणि तऽआहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे । उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा तऽआहुः परमञ्जनित्रम् ॥

त्रीणि। ते। आहुः। दिवि। बन्धनानि। त्रीणि। अप्स्वित्यप्ऽसु। त्रीणि। अन्तरित्यन्तः। समुद्रे। उतेवेत्युतऽइव। मे। वरुणः। छन्त्सि। अर्वन्। यत्र। ते। आहुः। परमम्। जनित्रम्॥१५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्रीणि) (ते) तव (आहुः) कथयन्ति (दिवि) विद्याप्रकाशे (बन्धनानि) (त्रीणि) (अप्सु) प्राणेषु (त्रीणि) (अन्तः) मध्ये (समुद्रे) अन्तरिक्षे (उतेव) यथोत्प्रेक्षणम् (मे) मम (वरुणः) श्रेष्ठः (छन्त्सि) अर्चसि। छन्दतीत्यर्चतिकर्मा॰॥ (निघ॰३।१४) (अर्वन्) विज्ञानयुक्त (यत्र) यस्मिन् जन्मनि (ते) तव। अत्र ऋचि तुनुघ॰ [अ॰६.३.१३३] इति दीर्घः। (आहुः) (परमम्) प्रकृष्टम् (जनित्रम्)॥१५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! आत्ममनःशरीरैर्ब्रह्मचर्येण विद्यासु नियता भूत्वा विद्यासुशिक्षे सञ्चिनुत। द्वितीयं विद्याजन्म प्राप्यार्चिता भवत, येन येन सह यावान् स्वस्य सम्बन्धोऽस्ति तं विजानीत॥१५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अर्वन् विद्वन्! यत्र दिवि ते त्रीणि बन्धनानि विद्वांस आहुर्यत्राप्सु त्रीणि यत्रान्तर्मध्ये समुद्रे च त्रीणि बन्धनान्याहुस्ते च परमं जनित्रमाहुः। येन वरुणः सन् विदुषः छन्त्स्युतेव तानि मे सन्तु॥१५॥