Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 13

60 Mantra
29/13
Devata- अग्निर्देवता Rishi- भार्गवो जमदग्निर्ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
य॒मेन॑ द॒त्तं त्रि॒तऽए॑नमायुन॒गिन्द्र॑ऽएणं प्रथ॒मोऽअध्य॑तिष्ठत्।ग॒न्ध॒र्वोऽअ॑स्य रश॒नाम॑गृभ्णा॒त् सूरा॒दश्वं॑ वस॒वो निर॑तष्ट॥१३॥

य॒मेन॑। द॒त्तम्। त्रि॒तः। ए॒न॒म्। आ॒यु॒न॒क्। अ॒यु॒न॒गत्य॑युनक्। इन्द्रः॑। ए॒न॒म्। प्र॒थ॒मः। अधि॑। अ॒ति॒ष्ठ॒त्। ग॒न्ध॒र्वः। अ॒स्य॒। र॒श॒नाम्। अ॒गृ॒भ्णा॒त्। सूरा॑त्। अश्व॑म्। व॒स॒वः। निः। अ॒त॒ष्ट॒ ॥१३ ॥

Mantra without Swara
यमेन दत्तन्त्रितऽएनमायुनगिन्द्रऽएणम्प्रथमोऽअध्यतिष्ठत् । गन्धर्वाऽअस्य रशनामगृभ्णात्सूरादश्वँवसवो निरतष्ट ॥

यमेन। दत्तम्। त्रितः। एनम्। आयुनक्। अयुनगत्ययुनक्। इन्द्रः। एनम्। प्रथमः। अधि। अतिष्ठत्। गन्धर्वः। अस्य। रशनाम्। अगृभ्णात्। सूरात्। अश्वम्। वसवः। निः। अतष्ट॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यमेन) नियन्त्रा वायुना (दत्तम्) (त्रितः) त्रिभ्यः पृथिवीजलान्तरिक्षेभ्यः (एनम्) वह्निम् (आयुनक्) युनक्ति (इन्द्रः) विद्युत् (एनम्) अत्र छान्दसं णत्वम्। (प्रथमः) विस्तीर्णः प्रख्यातः (अधि) (अतिष्ठत्) उपरि तिष्ठति (गन्धर्वः) गो पृथिव्या धर्त्ता (अस्य) सूर्यस्य (रशनाम्) रशनावत् किरणगतिम् (अगृभ्णात्) गृह्णाति (सूरात्) सूर्य्यात् (अश्वम्) आशुगामिनं वायुम् (वसवः) विद्वांसः (निः) (अतष्ट) तक्ष्णोति तनूकरोति॥१३॥
Essence
हे मनुष्याः! ईश्वरेणेह यस्मिन् पदार्थे यादृशी पदार्थरचना कृता, तां यूयं विद्यया संवित्तैतां सृष्टिविद्यां गृहीत्वाऽनेकानि सुखानि साध्नुत च॥१३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे वसवो! य इन्द्रस्त्रितो यमेन दत्तमेनमायुनगेनं प्राप्य प्रथमोऽध्यतिष्ठद्, गन्धर्वः अस्य रशनामगृभ्णादस्मात् सूरादश्वं निरतष्ट, तं यूयं विस्तारयत॥१३॥