Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 29 / Mantra 12

60 Mantra
29/12
Devata- यजमानो देवता Rishi- भार्गवो जमदग्निर्ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यदक्र॑न्दः प्रथ॒मं जाय॑मानऽउ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात्।श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॒ बा॒हूऽउ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ऽअर्वन्॥१२॥

यत्। अक्र॑न्दः। प्र॒थ॒मम्। जाय॑मानः। उ॒द्यन्नित्यु॒त्ऽयन्। स॒मु॒द्रात्। उ॒त। वा॒। पुरी॑षात्। श्ये॒नस्य॑। प॒क्षा। ह॒रि॒णस्य॑। बा॒हूऽइति॑ बा॒हू। उ॒प॒स्तुत्य॒मित्यु॑प॒ऽस्तुत्य॑म्। महि॑। जा॒तम्। ते॒ अ॒र्व॒न् ॥१२ ॥

Mantra without Swara
यदक्रन्दः प्रथमञ्जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहूऽउपस्तुत्यम्महि जातन्तेऽअर्वन् ॥

यत्। अक्रन्दः। प्रथमम्। जायमानः। उद्यन्नित्युत्ऽयन्। समुद्रात्। उत। वा। पुरीषात्। श्येनस्य। पक्षा। हरिणस्य। बाहूऽइति बाहू। उपस्तुत्यमित्युपऽस्तुत्यम्। महि। जातम्। ते अर्वन्॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यत्) यदा (अक्रन्दः) शब्दं कुरुषे (प्रथमम्) (जायमानः) (उद्यन्) उदयं प्राप्नुवन् (समुद्रात्) अन्तरिक्षात्। समुद्र इत्यन्तरिक्षनामसु पठितम्॥ (निघ॰१।३) (उत) अपि (वा) (पुरीषात्) पालकात् परमात्मनः (श्येनस्य) पक्षिणः (पक्षा) पक्षौ (हरिणस्य) हर्त्तुं शीलस्य वीरस्य (बाहू) भुजौ (उपस्तुत्यम्) उपगतस्तुतिविषयम् (महि) महत् कर्म (जातम्) (ते) तव (अर्वन्) अश्व इव वेगवद्विद्वन्॥१२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथाऽन्तरिक्षात् प्रकटो वायुः कर्माणि कारयति, तथा शुभान् नृगुणान् यूयं स्वीकुरुत। यथा पशूनां मध्येऽश्वो वेगवानस्ति तथा शत्रूणां निग्रहे वेगवन्तः श्येन इव वीरसेना प्रगल्भा भवत यद्येवं कुरुत तर्हि सर्वं युष्माकं प्रशंसितं स्यात्॥१२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अर्वन् विद्वन्! यत्समुद्रादुत वा पुरीषात् प्रथमं जायमानो वायुरिवोद्यंस्त्वमक्रन्दस्तदा ते हरिणस्य बाहू श्येनस्य पक्षेव एतत् महि जातमुपस्तुत्यं भवति॥१२॥