Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 8

46 Mantra
28/8
Devata- इन्द्रो देवता Rishi- बृहदुक्थो गोतम ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
होता॑ यक्षत् ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपस॒ऽ इडा॒ सर॑स्वती॒ भार॑ती म॒हीः। इन्द्र॑पत्नीर्ह॒विष्म॑ती॒र्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑॥८॥

होता॑। य॒क्ष॒त्। ति॒स्रः। दे॒वीः। न। भे॒ष॒जम्। त्रयः॑। त्रि॒धात॑व॒ इति॑ त्रि॒ऽधात॑वः। अ॒पसः॑। इडा॑। सर॑स्वती। भार॑ती। म॒हीः। इन्द्र॑पत्नी॒रितीन्द्र॑ऽपत्नीः। ह॒विष्म॑तीः। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑ ॥८ ॥

Mantra without Swara
होता यक्षत्तिस्रो देवीर्न भेषजन्त्रयस्त्रिधातवो पस इडा सरस्वत्भारती महीः । इन्द्रपत्नीर्हविष्मतीर्व्यन्त्वाज्यस्य होतर्यज ॥

होता। यक्षत्। तिस्रः। देवीः। न। भेषजम्। त्रयः। त्रिधातव इति त्रिऽधातवः। अपसः। इडा। सरस्वती। भारती। महीः। इन्द्रपत्नीरितीन्द्रऽपत्नीः। हविष्मतीः। व्यन्तु। आज्यस्य। होतः। यज॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) विद्याया दाताऽऽदाता वा (यक्षत्) (तिस्रः) त्रित्वसङ्ख्याकाः (देवीः) सकलविद्याप्रकाशिकाः (न) इव (भेषजम्) औषधम् (त्रयः) अध्यापकोपदेशकवैद्याः (त्रिधातवः) त्रयोऽस्थिमज्जवीर्याणि धातवो येभ्यस्ते (अपसः) कर्मठाः (इडा) प्रशंसितुमर्हा (सरस्वती) बहुविज्ञानयुक्ता (भारती) सुष्ठु विद्याया धारिका पोषिका वा वाणी (महीः) महती पूज्याः (इन्द्रपत्नीः) इन्द्रस्य जीवस्य पत्नीः स्त्रीवद् वर्त्तमानाः (हविष्मतीः) विविधविज्ञानसहिताः (व्यन्तु) प्राप्नुवन्तु (आज्यस्य) प्राप्तुं योग्यस्याऽध्यापनाऽध्ययनव्यवहारस्य (होतः) (यज)॥८॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा प्रशस्ता विज्ञानवती सुमेधा च स्त्रियः स्वसदृशान् पतीन् प्राप्य मोदन्ते तथाऽध्यापकोपदेशकवैद्या मनुष्याः स्तुतिविज्ञानयोगधारणायुक्तास्त्रिविधा वाचः प्राप्याऽऽनन्दन्ति॥८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतर्यथा होताऽऽज्यस्य यक्षत्। यथा त्रिधातवोऽपसस्त्रयस्तिस्रो देवीर्न भेषजं मही इडा सरस्वती भारती च हविष्मतीरिन्द्रपत्नीर्व्यन्तु तथा यज॥८॥