Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 45

46 Mantra
28/45
Devata- इन्द्रो देवता Rishi- सरस्वत्यृषिः Chhand- स्वराडतिजगती Swara- निषादः
Mantra with Swara
दे॒वोऽअ॒ग्निः स्वि॑ष्ट॒कृद् दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत्।अति॑छन्दसा॒ छन्द॑सेन्द्रि॒यं क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑द् वसु॒धेय॑स्य वसु॒वने॑ वेतु॒ यज॑॥४५॥

दे॒वः। अ॒ग्निः। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। दे॒वम्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। दे॒वः। दे॒वम्। अ॒व॒र्ध॒य॒त्। अति॑छन्द॒सेत्यति॑ऽछन्दसा। छन्द॑सा। इ॒न्द्रि॒यम्। क्ष॒त्रम्। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। वे॒तु॒। यज॑ ॥४५ ॥

Mantra without Swara
देवोऽअग्निः स्विष्टकृद्देवमिन्द्रँवयोधसन्देवो देवमवर्धयत् । अतिच्छन्दसा च्छन्दसेन्द्रियङ्क्षत्रमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥

देवः। अग्निः। स्विष्टकृदिति स्विष्टऽकृत्। देवम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। देवः। देवम्। अवर्धयत्। अतिछन्दसेत्यतिऽछन्दसा। छन्दसा। इन्द्रियम्। क्षत्रम्। इन्द्रे। वयः। दधत्। वसुधेयस्येति वसुऽधेयस्य। वसुवन इति वसुऽवने। वेतु। यज॥४५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवः) सर्वज्ञः (अग्निः) स्वप्रकाशस्वरूप ईश्वरः (स्विष्टकृत्) यः शोभनमिष्टं करोति सः (देवम्) धार्मिकम् (इन्द्रम्) जीवम् (वयोधसम्) आयुषो धर्त्तारम् (देवः) विद्वान् (देवम्) विद्यार्थिनम् (अवर्धयत्) वर्धयति (अतिछन्दसा) अतिजगत्यादिना (छन्दसा) आह्लादकरेण (इन्द्रियम्) जीवेन सेवितम् (क्षत्रम्) राज्यम् (इन्द्रे) विद्याविनयान्विते (वयः) कमनीयं वस्तु (दधत्) (वसुधेयस्य) (वसुवने) (वेतु) व्याप्नोतु (यज)॥४५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो मनुष्याः! यथा परमेश्वरेण दयया सर्वान् पदार्थानुत्पाद्य जीवेभ्यः समर्प्य जगद् वृद्धिः कृता, तथा विद्याविनयसत्सङ्गपुरुषार्थधर्मानुष्ठानै राज्यं वर्धयत॥४५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यथा स्विष्टकृद्देवोऽग्निर्वयोधसं देवमिन्द्रं देवो देवमिवावर्धयदतिछन्दसा छन्दसेन्द्रे वसुधेयस्य वसुवने वयः क्षत्रमिन्द्रियं दधत् सन् वेतु तथा यज॥४५॥