Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 44

46 Mantra
28/44
Devata- इन्द्रो देवता Rishi- सरस्वत्यृषिः Chhand- भुरिगतिजगती Swara- निषादः
Mantra with Swara
दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वं दे॒वम॑वर्धयत्।क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ऽइन्द्रे॒ वयो॒ दध॑द् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥४४॥

दे॒वम्। ब॒र्हिः। वारि॑तीनाम्। दे॒वम्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। दे॒वम्। दे॒वम्। अ॒व॒र्ध॒य॒त्। क॒कुभा॑। छन्द॑सा। इ॒न्द्रि॒यम्। यशः॑। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥४४ ॥

Mantra without Swara
देवम्बर्हिर्वारितीनान्देवमिन्द्रँवयोधसन्देवँदेवमवर्धयत् । ककुभा च्छन्दसेन्द्रियँयशऽइन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥

देवम्। बर्हिः। वारितीनाम्। देवम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। देवम्। देवम्। अवर्धयत्। ककुभा। छन्दसा। इन्द्रियम्। यशः। इन्द्रे। वयः। दधत्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥४४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवम्) दिव्यम् (बर्हिः) उदकम्। बर्हिरित्युदकना॰ (निघं॰१।१२) (वारितीनाम्) अन्तरिक्षस्थसमुद्राणाम् (देवम्) दिव्यम् (इन्द्रम्) राजानम् (वयोधसम्) बहुवयोधारकम् (देवम्) दिव्यगुणम् (देवम्) प्रकाशमानम् (अवर्धयत्) वर्धयेत् (ककुभा, छन्दसा) (इन्द्रियम्) इन्द्रस्य जीवस्य लिङ्गम् (यशः) कीर्त्तिम् (इन्द्रे) परमेश्वर्ये (वयः) (दधत्) (वसुवने) (वसुधेयस्य) (वेतु) (यज)॥४४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो मनुष्याः! यथोदकं समुद्रान् प्रपूर्य जन्तून् संरक्ष्य मुक्तादीनि रत्नानि जनयति, तथा धर्मेण धनकोषं प्रपूर्याऽन्यान् दरिद्रान् संरक्ष्य र्कीिंत्त वर्धयत॥४४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यथा वारितीनां देवं बर्हिर्वयोधसं देवमिन्द्रं देवं देवं चावर्धयत् ककुभा छन्दसेन्द्रं यश इन्द्रियं वेतु तथा वसुधेयस्य वसुवने वयो दधद् यज॥४४॥