Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 4

46 Mantra
28/4
Devata- रुद्रो देवता Rishi- बृहदुक्थो वामदेव ऋषिः Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
होता॑ यक्षद् ब॒र्हिषीन्द्रं॑ निषद्व॒रं वृ॑ष॒भं नर्या॑पसम्। वसु॑भी रु॒द्रैरा॑दि॒त्यैः स॒युग्भि॑र्ब॒र्हिरास॑दद् वेत्वाज्य॑स्य॒ होत॒र्यज॑॥४॥

होता॑। य॒क्ष॒त्। ब॒र्हिषि॑। इन्द्र॑म्। नि॒ष॒द्व॒रम्। नि॒स॒द्व॒रमिति॑ निसत्ऽव॒रम्। वृ॒ष॒भम्। नर्या॑पस॒मिति॒ नर्य॑ऽअपसम्। वसु॑भि॒रिति॒ वसु॑ऽभिः। रु॒द्रैः। आ॒दि॒त्यैः। स॒युग्भि॒रिति॑ स॒युक्ऽभिः॑। ब॒र्हिः। आ। अ॒स॒द॒त्। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥४ ॥

Mantra without Swara
होता यक्षद्बरिषीन्द्रन्निषद्वरँवृषभन्नर्यापसम् । वसुभी रुद्रैरादित्यैः सुयुग्भिर्बर्हिरासदद्वेत्वाज्यस्य होतर्यज ॥

होता। यक्षत्। बर्हिषि। इन्द्रम्। निषद्वरम्। निसद्वरमिति निसत्ऽवरम्। वृषभम्। नर्यापसमिति नर्यऽअपसम्। वसुभिरिति वसुऽभिः। रुद्रैः। आदित्यैः। सयुग्भिरिति सयुक्ऽभिः। बर्हिः। आ। असदत्। वेतु। आज्यस्य। होतः। यज॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) (यक्षत्) (बर्हिषि) उत्तमायां विद्वत्सभायाम् (इन्द्रम्) नीत्या सुशोभमानम् (निषद्वरम्) निषीदन्ति वराः श्रेष्ठा मनुष्या यस्य समीपे तम् (वृषभम्) सर्वोत्कृष्टं बलिष्ठम् (नर्यापसम्) नृषु साधून्यपांसि कर्माणि यस्य तम् (वसुभिः) प्रथमकल्पैः (रुद्रैः) मध्यकक्षास्थैः (आदित्यैः) उत्तमकल्पैश्च विद्वद्भिः (सयुग्भिः) ये युञ्जन्ते तैः (बर्हिः) उत्तमां सभाम् (आसदत्) आसीदति (वेतु) प्राप्नोतु (आज्यस्य) कर्त्तव्यस्य न्यायस्य (होतः) (यज)॥४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा पृथिव्यादयो लोकाः, प्राणादयो वायवः, कालावयवाः मासाः सह वर्त्तन्ते, तथा ये राजप्रजाजनाः परम्परानुकूल्ये वर्त्तित्वा सभया प्रजापालनं कुर्युस्ते श्रेष्ठां प्रशंसां प्राप्नुवन्ति॥४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतर्होता यथा सयुग्भिर्वसुभी रुद्रैरादित्यै सह बर्हिषि निषद्वरं वृषभं नर्यापसमिन्द्रं यक्षदाज्यस्य बर्हिरासदत् सुखं वेतु तथा यज॥४॥