Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 36

46 Mantra
28/36
Devata- इन्द्रो देवता Rishi- सरस्वत्यृषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
दे॒वीर्द्वारो॑ वयो॒धस॒ꣳ शुचि॒मिन्द्र॑मवर्धयन्।उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यं प्रा॒णमिन्द्रे॒ वयो॒ दध॑द् वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑॥३६॥

दे॒वीः। द्वारः॑। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। शुचि॑म्। इन्द्र॑म्। अ॒व॒र्ध॒य॒न्। उ॒ष्णिहा॑। छन्द॑सा। इ॒न्द्रि॒यम्। प्रा॒णम्। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑ ॥३६ ॥

Mantra without Swara
देवीर्द्वारो वयोधसँ शुचिमिन्द्रमवर्धयन् । उष्णिहा च्छन्दसेन्द्रियम्प्राणमिन्द्रे वयो दधद्वसुवने वसुधेयस्य व्यन्तु यज ॥

देवीः। द्वारः। वयोधसमिति वयःऽधसम्। शुचिम्। इन्द्रम्। अवर्धयन्। उष्णिहा। छन्दसा। इन्द्रियम्। प्राणम्। इन्द्रे। वयः। दधत्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। व्यन्तु। यज॥३६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवीः) देदीप्यमानानि (द्वारः) गमनागमनार्थानि द्वाराणि (वयोधसम्) जीवनाधारकम् (शुचिम्) पवित्रम् (इन्द्रम्) शुद्धं वायुम् (अवर्धयन्) वर्धयन्ति (उष्णिहा) (छन्दसा) (इन्द्रियम्) इन्द्रेण जीवेन जुष्टम् (प्राणम्) (इन्द्रे) जीवे (वयः) कमनीयं प्रियम् (दधत्) धरन्त्सन् (वसुवने) द्रव्ययाचिने (वसुधेयस्य) धनाऽऽधारस्य कोषस्य (व्यन्तु) (यज)॥३६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यानि गृहाणि सन्मुखद्वाराणि सर्वतो वायुसञ्चारीणि सन्ति, तत्र निवासेन जीवनं पवित्रता बलमारोग्यं च वर्धते, तस्माद् बहुद्वाराणि बृहन्ति गृहाणि निर्मातव्यानि॥३६॥
Subject
मनुष्यैः कीदृशानि गृहाणि निर्मातव्यानीत्याह॥
Anvaya
हे विद्वन्! यथा देवीर्द्वारो वयोधसं शुचिमिन्द्रमिन्द्रियं प्राणमिन्द्रे वसुधेयस्य वसुवनेऽवर्धयन् व्यन्तु तथोष्णिहा छन्दसैतान् वयश्च दधत् सन् यज॥३६॥