Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 35

46 Mantra
28/35
Devata- इन्द्रो देवता Rishi- सरस्वत्यृषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
दे॒वं ब॒र्हिर्व॑यो॒धसं॑ दे॒वमिन्द्र॑मवर्धयत्।गा॒य॒त्र्या छन्द॑सेन्द्रि॒यं चक्षु॒रिन्द्रे वयो॒ दध॑द् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥३५॥

दे॒वम्। ब॒र्हिः। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। दे॒वम्। इन्द्र॑म्। अ॒व॒र्ध॒य॒त्। गा॒य॒त्र्या। छन्द॑सा। इ॒न्द्रि॒यम्। चक्षुः॑। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वेतु॑। यज॑ ॥३५ ॥

Mantra without Swara
देवम्बर्हिर्वयोधसन्देवमिन्द्रमवर्धयत् । गायत्र्या छन्दसेन्द्रियञ्चक्षुरिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥

देवम्। बर्हिः। वयोधसमिति वयःऽधसम्। देवम्। इन्द्रम्। अवर्धयत्। गायत्र्या। छन्दसा। इन्द्रियम्। चक्षुः। इन्द्रे। वयः। दधत्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥३५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवम्) दिव्यगुणम् (बर्हिः) अन्तरिक्षम् (वयोधसम्) वयोवर्धकम् (देवम्) दिव्यस्वरूपम् (इन्द्रम्) सूर्यम् (अवर्धयत्) वर्धयति (गायत्र्या) (छन्दसा) (इन्द्रियम्) इन्द्रस्य जीवस्य लिङ्गम् (चक्षुः) नेत्रम् (इन्द्रे) जीवे (वयः) जीवनम् (दधत्) धरत् (वसुवने) धनविभाजकाय (वसुधेयस्य) द्रव्याऽऽधारस्य संसारस्य (वेतु) प्राप्नोतु (यज) संगच्छस्व॥३५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथाऽऽकाशे सूर्यप्रकाशो वर्धते, तथा वेदेषु प्रज्ञा वर्धते। येऽस्मिन् संसारे वेदद्वारा सर्वाः सत्यविद्या जानीयुस्ते सर्वतो वर्धेरन्॥३५॥
Subject
कीदृशा जना वर्धन्त इत्याह॥
Anvaya
हे विद्वन्! यथा देवं बर्हिर्वयोधसं देवमिन्द्रमवर्धयद् यथा च गायत्र्या छन्दसा चक्षुरिन्द्रियं वयश्चेन्द्रे दधत् सद् वसुधेयस्य वसुवने वेतु तथा यज॥३५॥