Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 34

46 Mantra
28/34
Devata- अग्निर्देवता Rishi- सरस्वत्यृषिः Chhand- अतिशक्वरी Swara- पञ्चमः
Mantra with Swara
होता॑ यक्ष॒त् स्वाहा॑कृतीर॒ग्निं गृ॒हप॑तिं॒ पृथ॒ग्वरु॑णं भेष॒जं कविं॑ क्ष॒त्रमिन्द्रं॑ वयो॒धस॑म्।अति॑च्छन्दसं॒ छन्द॑ऽइन्द्रि॒यं बृ॒हदृ॑ष॒भं गां वयो॒ दध॒द् व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑॥३४॥

होता॑। य॒क्ष॒त्। स्वाहा॑कृती॒रिति॒ स्वाहा॑ऽकृतीः। अ॒ग्निम्। गृ॒हप॑ति॒मिति॑ गृ॒हऽप॑तिम्। पृथ॑क्। वरु॑णम्। भे॒ष॒जम्। क॒विम्। क्ष॒त्रम्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। अति॑छन्दस॒मित्यति॑ऽछन्दसम्। छन्दः॑। इ॒न्द्रि॒यम्। बृ॒हत्। ऋ॒ष॒भम्। गाम्। वयः॑। दध॑त्। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑ ॥३४ ॥

Mantra without Swara
होता यक्षत्स्वाहाकृतीरग्निङ्गृहपतिम्पृथग्वरुणम्भेषजङ्कविङ्क्षत्रमिन्द्रँवयोधसम् । अतिच्छन्दसञ्छन्दऽइन्द्रियम्बृहदृषभङ्गाँवयो दधद्व्यन्त्वाज्यस्य होतर्यज ॥

होता। यक्षत्। स्वाहाकृतीरिति स्वाहाऽकृतीः। अग्निम्। गृहपतिमिति गृहऽपतिम्। पृथक्। वरुणम्। भेषजम्। कविम्। क्षत्रम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। अतिछन्दसमित्यतिऽछन्दसम्। छन्दः। इन्द्रियम्। बृहत्। ऋषभम्। गाम्। वयः। दधत्। व्यन्तु। आज्यस्य। होतः। यज॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) (यक्षत्) (स्वाहाकृतीः) वाण्यादिभिः क्रियाः (अग्निम्) पावकमिव वर्त्तमानम् (गृहपतिम्) गृहस्य पालकम् (पृथक्) (वरुणम्) श्रेष्ठम् (भेषजम्) औषधम् (कविम्) मेधाविनम् (क्षत्रम्) राज्यम् (इन्द्रम्) राजानम् (वयोधसम्) कमनीयं जीवनधारकम् (अतिछन्दसम्) अतिजगत्यादिप्रतिपादितम् (छन्दः) (इन्द्रियम्) श्रोत्रादिकम् (बृहत्) (ऋषभम्) अतिश्रेष्ठम् (गाम्) (वयः) (दधत्) (व्यन्तु) (आज्यस्य) (होतः) (यज)॥३४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या वेदस्थानि छन्दांस्यतिछन्दांसि चाधीत्यार्थविदो भवन्ति, ते सर्वा विद्याः प्राप्नुवन्ति॥३४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतस्त्वं यथा होता स्वाहाकृतीरग्निमिव गृहपतिं वरुणं पृथग्भेषजं कविं वयोधसमिन्द्रं क्षत्रमतिछन्दसं छन्दो बृहदिन्द्रियमृषभं गां वयश्च दधत् सन्नाज्यस्याहुतिं यक्षद् यथा जना एतानि व्यन्तु तथा यज॥३४॥