Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 33

46 Mantra
28/33
Devata- इन्द्रो देवता Rishi- सरस्वत्यृषिः Chhand- निचृदत्यष्टिः Swara- गान्धारः
Mantra with Swara
होता॑ यक्ष॒द् वन॒स्पति॑ꣳ शमि॒तार॑ꣳ श॒तक्र॑तु॒ꣳ हिर॑ण्यपर्णमु॒क्थिन॑ꣳ रश॒नां बिभ्र॑तं व॒शिं भग॒मिन्द्रं॑ वयो॒धस॑म्। क॒कुभं॒ छन्द॑ऽइ॒हेन्द्रि॒यं व॒शां वे॒हतं॒ गां वयो॒ दध॒द् वेत्वाज्य॑स्य॒ होत॒र्यज॑॥३३॥

होता॑। य॒क्ष॒त्। वन॒स्पति॑म्। श॒मि॒तार॑म्। श॒तक्र॑तु॒मिति॑ श॒तऽक्र॑तुम्। हिर॑ण्यपर्ण॒मिति॒ हिर॑ण्यऽपर्णम्। उ॒क्थिन॑म्। र॒श॒नाम्। बिभ्र॑तम्। व॒शिम्। भग॑म्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। क॒कुभ॑म्। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। व॒शाम्। वे॒हत॑म्। गाम्। वयः॑। दध॑त्। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥३३ ॥

Mantra without Swara
होता यक्षद्वनस्पतिँ शमितारँ शतक्रतुँ हिरण्यपर्णमुक्थिनँ रशनाम्बिभ्रतँवशिम्भगमिन्द्रँवयोधसम् । ककुभञ्छन्दऽइहेन्द्रियँवशाँ वेहतङ्गाँवयो दधद्वेत्वाज्यस्य होतर्यज ॥

होता। यक्षत्। वनस्पतिम्। शमितारम्। शतक्रतुमिति शतऽक्रतुम्। हिरण्यपर्णमिति हिरण्यऽपर्णम्। उक्थिनम्। रशनाम्। बिभ्रतम्। वशिम्। भगम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। ककुभम्। छन्दः। इह। इन्द्रियम्। वशाम्। वेहतम्। गाम्। वयः। दधत्। वेतु। आज्यस्य। होतः। यज॥३३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) (यक्षत्) (वनस्पतिम्) किरणपालकं सूर्यम् (शमितारम्) शान्तिकरम् (शतक्रतुम्) बहुप्रज्ञम् (हिरण्यपर्णम्) हिरण्यानि तेजांसि पर्णानि पालकानि यस्य तम् (उक्थिनम्) उक्थानि वक्तुं योग्यानि प्रशस्तानि वचनानि यस्य तम् (रशनाम्) अङ्गुलिम्। रशनेत्यस्यङ्गुलिना॰॥ (निघं॰३।५) (बिभ्रतम्) धरन्तम् (वशिम्) वशकर्त्तारम् (भगम्) सेवनीयमैश्वर्यम् (इन्द्रम्) जीवम् (वयोधसम्) आयुर्धारकम् (ककुभम्) स्तम्भकम् (छन्दः) आह्लादकरम् (इह) (इन्द्रियम्) धनम् (वशाम्) वन्ध्याम् (वेहतम्) गर्भस्राविकाम् (गाम्) (वयः) कमनीयं वस्तु (दधत्) (वेतु) (आज्यस्य) (होतः) (यज)॥३३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यवद्विद्याधर्मसुशिक्षाप्रकाशका धीमन्तः स्वाङ्गानि धरन्तो विद्यैश्वर्यं प्राप्याऽन्येभ्यो ददति, ते प्रशंसामाप्नुवन्ति॥३३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतस्त्वं यथेहाज्यस्य होता शमितारं हिरण्यपर्णं वनस्पतिमिव शतक्रतुमुक्थिनं रशनां बिभ्रतं वशिं भगं वयोधसमिन्द्रं ककुभं छन्द इन्द्रियं वशां वेहतं गां वयश्च दधत् सन् यक्षद् वेतु तथा यज॥३३॥