Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 30

46 Mantra
28/30
Devata- अश्विनौ देवते Rishi- सरस्वत्यृषिः Chhand- भुरिक् शक्वरी Swara- धैवतः
Mantra with Swara
होता॑ यक्ष॒त्प्रचे॑तसा दे॒वाना॑मुत्त॒मं यशो॒ होता॑रा॒ दैव्या॑ क॒वी स॒युजेन्द्रं॑ वयो॒धस॑म्। जग॑तीं॒ छन्द॑ऽ इन्द्रि॒यम॑न॒ड्वाहं॒ गां वयो॒ दध॑द् वी॒तामाज्य॑स्य॒ होत॒र्यज॑॥३०॥

होता॑। य॒क्ष॒त्। प्रचे॑त॒सेति॒ प्रऽचे॑तसा। दे॒वाना॑म्। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। यशः॑। होता॑रा। दैव्या॑। क॒वीऽऽइति॑ क॒वी। स॒युजेति॑ स॒ऽयुजा॑। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। जग॑तीम्। छन्दः॑। इ॒न्द्रि॒यम्। अ॒न॒ड्वाह॑म्। गाम्। वयः॑। दध॑त्। वी॒ताम्। आज्य॑स्य। होतः॑। यज॑ ॥३० ॥

Mantra without Swara
होता यक्षत्प्रचेतसा देवानामुत्तमँ यशो होतारा दैव्या कवी सयुजेन्द्रँ वयोधसम् । जगतीञ्छन्दऽइन्द्रियमनड्वाहंङ्गाँवयो दधद्वीतामाज्यस्य होतर्यज ॥

होता। यक्षत्। प्रचेतसेति प्रऽचेतसा। देवानाम्। उत्तममित्युत्ऽतमम्। यशः। होतारा। दैव्या। कवीऽऽइति कवी। सयुजेति सऽयुजा। इन्द्रम्। वयोधसमिति वयःऽधसम्। जगतीम्। छन्दः। इन्द्रियम्। अनड्वाहम्। गाम्। वयः। दधत्। वीताम्। आज्यस्य। होतः। यज॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) (यक्षत्) (प्रचेतसा) प्रकृष्टं चेतो विज्ञानं ययोस्तौ (देवानाम्) विदुषाम् (उत्तमम्) (यशः) कीर्त्तिम् (होतारा) दातारौ (दैव्या) देवेषु दिव्येषु कर्मसु साधू (कवी) मेधाविनौ (सयुजा) यौ सहैव युङ्क्तस्तौ (इन्द्रम्) परमैश्वर्यम् (वयोधसम्) कमनीयसुखधारकम् (जगतीम्) (छन्दः) (इन्द्रियम्) धनम् (अनड्वाहम्) शकटवाहकम् (गाम्) वृषभम् (वयः) विज्ञानम् (दधत्) (वीताम्) प्राप्नुताम् (आज्यस्य) विज्ञेयस्य (होतः) (यज)॥३०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यदि मनुष्याः पुरुषार्थं कुर्युस्तर्हि विद्यां कीर्त्तिं धनं च प्राप्य माननीया भवेयुः॥३०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतस्त्वं यथा देवानां प्रचेतसा सयुजा दैव्या होतारा कवी अध्यापकाऽध्येतारौ श्रोताश्रावयितारौ वोत्तमं यशो वयोधसमिन्द्रं जगतीं छन्दो वय इन्द्रियमनड्वाहं गां च वीतां यथाऽऽज्यस्य मध्य एतानि दधत् सन् होता यक्षत् तथा यज॥३०॥