Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 27

46 Mantra
28/27
Devata- इन्द्रो देवता Rishi- सरस्वत्यृषिः Chhand- स्वराडतिजगती Swara- निषादः
Mantra with Swara
होता॑ यक्षत्सुब॒र्हिषं॑ पूष॒ण्वन्त॒मम॑र्त्य॒ꣳ सीद॑न्तं ब॒र्हिषि॑ प्रि॒येऽमृतेन्द्रं॑ वयो॒धस॑म्।बृ॒ह॒तीं छन्द॑ऽइन्द्रि॒यं त्रि॑व॒त्सं गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑॥२७॥

होता॑। य॒क्ष॒त्। सु॒ब॒र्हिष॒मिति॑ सुऽब॒र्हिष॑म्। पू॒ष॒ण्वन्त॒मिति॑ पूष॒ण्ऽवन्त॑म्। अम॑र्त्यम्। सीद॑न्तम्। ब॒र्हिषि॑। प्रि॒ये। अ॒मृता॑। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। बृ॒ह॒तीम्। छन्दः॑। इ॒न्द्रि॒यम्। त्रि॒व॒त्समिति॑ त्रिऽव॒त्सम्। गाम्। वयः॑। दध॑त्। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥२७ ॥

Mantra without Swara
होता यक्षत्सुबर्हिषठम्पूषण्वन्तममर्त्यँ सीदन्तम्बर्हिषि प्रियेमृतेन्द्रँवयोधसम् । बृहती ञ्छन्दऽइन्द्रियन्त्रिवत्सङ्गाँवयो दधद्वेत्वाज्यस्य होतर्यज ॥

होता। यक्षत्। सुबर्हिषमिति सुऽबर्हिषम्। पूषण्वन्तमिति पूषण्ऽवन्तम्। अमर्त्यम्। सीदन्तम्। बर्हिषि। प्रिये। अमृता। इन्द्रम्। वयोधसमिति वयःऽधसम्। बृहतीम्। छन्दः। इन्द्रियम्। त्रिवत्समिति त्रिऽवत्सम्। गाम्। वयः। दधत्। वेतु। आज्यस्य। होतः। यज॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) आदाता (यक्षत्) (सुबर्हिषम्) शोभनं बर्हिरन्तरिक्षमुदकं वा यस्य तम् (पूषण्वन्तम्) बहुपुष्टियुक्तम् (अमर्त्यम्) मृत्युधर्मरहितम् (सीदन्तम्) तिष्ठन्तम् (बर्हिषि) आकाशमिव व्याप्ते (प्रिये) कमनीये परमात्मस्वरूपे (अमृता) नाशधर्मरहिते। अत्र विभक्तेराकारादेशः। (इन्द्रम्) स्वकीयं जीवस्वरूपम् (वयोधसम्) व्याप्तिधरम् (बृहतीम्) (छन्दः) (इन्द्रियम्) (त्रिवत्सम्) त्रयः कर्मोपासनाज्ञानानि वत्सा इव यस्य तम् (गाम्) प्राप्तव्यं बोधम् (वयः) कमनीयं सुखम् (दधत्) (वेतु) प्राप्नोति (आज्यस्य) (होतः) (यज)॥२७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या श्रोत्रियं ब्रह्मनिष्ठं योगिनं सेवन्ते, ते सर्वाण्यभीष्टानि सुखानि लभन्ते॥२७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतस्त्वं यथा स होताऽमृता बर्हिषि प्रिये सीदन्तममर्त्यं पूषण्वन्तं सुबर्हिषं वयोधसमिन्द्रं यक्षत् स आज्यस्य बृहतीं छन्द इन्द्रियं त्रिवत्सं गां वयश्च दधत् सन् कल्याणं वेतु तथैतानि यज॥२७॥