Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 26

46 Mantra
28/26
Devata- इन्द्रो देवता Rishi- सरस्वत्यृषिः Chhand- निचृच्छक्वरी Swara- धैवतः
Mantra with Swara
होता॑ यक्षदी॒डेन्य॒मीडि॒तं वृ॑त्र॒हन्त॑म॒मिडा॑भि॒रीड्य॒ꣳ सहः॒ सोम॒मिन्द्रं॑ वयो॒धस॑म्।अ॒नु॒ष्टुभं॒ छन्द॑ऽइन्द्रि॒यं पञ्चा॑विं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑॥२६॥

होता॑। य॒क्ष॒त्। ई॒डेन्य॑म्। ई॒डि॒तम्। वृ॒त्र॒हन्त॑म॒मिति॑ वृत्र॒हन्ऽत॑मम्। इडा॑भिः। ईड्य॑म्। सहः॑। सोम॑म्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। अ॒नु॒ष्टुभ॑म्। अ॒नु॒स्तुभ॒मित्य॑नु॒ऽस्तुभ॑म्। छन्दः॑। इ॒न्द्रि॒यम्। पञ्चा॑वि॒मिति॒ पञ्च॑ऽअविम्। गाम्। वयः॑। दध॑त्। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥२६ ॥

Mantra without Swara
होता यक्षदीडेन्यमीडितँ वृत्रहन्तममिडाभिरीड्यँ सहः सोममिन्द्रँ वयोधसम् । अनुष्टुभञ्छन्दऽइन्द्रियम्पञ्चाविँगाँवयो दधद्वेत्वाज्यस्य होतर्यज ॥

होता। यक्षत्। ईडेन्यम्। ईडितम्। वृत्रहन्तममिति वृत्रहन्ऽतमम्। इडाभिः। ईड्यम्। सहः। सोमम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। अनुष्टुभम्। अनुस्तुभमित्यनुऽस्तुभम्। छन्दः। इन्द्रियम्। पञ्चाविमिति पञ्चऽअविम्। गाम्। वयः। दधत्। वेतु। आज्यस्य। होतः। यज॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) आदाता (यक्षत्) संगच्छेत् (ईडेन्यम्) स्तोतुमर्हम् (ईडितम्) प्रशस्तम् (वृत्रहन्तमम्) अतिशयेन वृत्रस्य मेघस्य हन्तारं सूर्यमिव (इडाभिः) सुशिक्षिताभिर्वाग्भिः (ईड्यम्) प्रशंसितुमर्हम् (सहः) बलम् (सोमम्) सोमाद्योषधिगणम् (इन्द्रं) जीवम् (वयोधसम्) कमनीयानां प्राणानां धारकम् (अनुष्टुभम्) अनुस्तुम्भकम् (छन्दः) स्वातन्त्र्यम् (इन्द्रियम्) श्रोत्राादि (पञ्चाविम्) या पञ्च प्राणान् रक्षति ताम् (गाम्) पृथिवीम् (वयः) कमनीयं वस्तु (दधत्) धरत् सन् (वेतु) (आज्यस्य) विज्ञातुमर्हस्य (होतः) (यज)॥२६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या न्यायेन प्रशस्तगुणेन सूर्येणोपमिताः प्रशस्ता भूत्वा विज्ञेयानि वस्तूनि विदित्वा स्तुतिर्बलं जीवनं धनं जितेन्द्रियतां राज्यं च धरन्ति, ते प्रशंसार्हा भवन्ति॥२६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतर्यथा होता वृत्रहन्तममिवेडाभिरीडेन्यमीडितं सह ईड्यं सोमं वयोधसमिन्द्रं यक्षदिन्द्रियमनुष्टुभं छन्दः पञ्चावि गां वयश्चाऽऽज्यस्य मध्ये दधद् वेतु तथैतान् यज॥२६॥