Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 24

46 Mantra
28/24
Devata- अग्निर्देवता Rishi- सरस्वती ऋषिः Chhand- स्वराड् जगती Swara- निषादः
Mantra with Swara
होता॑ यक्षत्समिधा॒नं म॒हद्यशः॒ सुस॑मिद्धं॒ वरे॑ण्यम॒ग्निमिन्द्रं॑ वयो॒धस॑म्।गा॒य॒त्रीं छन्द॑ऽइन्द्रि॒यं त्र्यविं॒ गां वयो॒ दध॒द् वेत्वाज्य॑स्य होत॒र्यज॑॥२४॥

होता॑। य॒क्ष॒त्। स॒मि॒धा॒नमिति॑ सम्ऽइधा॒नम्। म॒हत्। यशः॑। सुस॑मिद्ध॒मिति॒ सुऽस॑मिद्धम्। वरे॑ण्यम्। अ॒ग्निम्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। गा॒य॒त्रीम्। छन्दः॑। इ॒न्द्रि॒यम्। त्र्यवि॒मिति॑ त्रि॒ऽअवि॑म्। गाम्। वयः॑। दध॑त्। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥२४ ॥

Mantra without Swara
होता यक्षत्समिधानम्महद्यशः सुसमिद्धँवरेण्यमग्निमिन्द्रँवयोधसम् । गायत्रीञ्छन्दऽइन्द्रियन्त्र्यविङ्गाँवयो दधद्वेत्वाज्यस्य होतर्यज ॥

होता। यक्षत्। समिधानमिति समऽइधानम्। महत्। यशः। सुसमिद्धमिति सुऽसमिद्धम्। वरेण्यम्। अग्निम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। गायत्रीम्। छन्दः। इन्द्रियम्। त्र्यविमिति त्रिऽअविम्। गाम्। वयः। दधत्। वेतु। आज्यस्य। होतः। यज॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) दाता (यक्षत्) सङ्गच्छेत् (समिधानम्) सम्यक् प्रकाशमानम् (महत्) (यशः) कीर्त्तिम् (सुसमिद्धम्) सुष्ठु प्रदीप्यमानम् (वरेण्यम्) वर्त्तुमर्हम् (अग्निम्) पावकम् (इन्द्रम्) परमैश्वर्यकारकम् (वयोधसम्) कमनीयायुर्धारकम् (गायत्रीम्) सदर्थान् प्रकाशयन्तीम् (छन्दः) स्वातन्त्र्यम् (इन्द्रियम्) धनं श्रोत्रादि वा (त्र्यविम्) या त्रिधाऽवति ताम् (गाम्) पृथिवीम् (वयः) जीवनम् (दधत्) धरन् (वेतु) (आज्यस्य) (होतः) (यज)॥२४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये सद्विद्यादिपदार्थानां दानं कुर्वन्ति, तेऽतुलां कीर्त्तिं प्राप्य सुखयन्ति॥२४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतस्त्वं यथा होताग्निमिव समिधानं सुसमिद्धं वरेण्यं महद्यशो वयोधसमिन्द्रं गायत्रीं छन्द इन्द्रियं त्र्यविं गां वयश्च दधत् सन् यक्षदाज्यस्य वेतु तथा यज॥२४॥