Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 22

46 Mantra
28/22
Devata- अग्निर्देवता Rishi- अश्विनावृषी Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
दे॒वोऽअ॒ग्निः स्॑िवष्ट॒कृद्दे॒वमिन्द्र॑मवर्धयत्।स्वि॑ष्टं कु॒र्वन्त्स्वि॑ष्ट॒कृत् स्वि॑ष्टम॒द्य क॑रोतु नो वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥२२॥

दे॒वः। अ॒ग्निः। स्वि॒ष्टकृदिति॑ स्विष्ट॒ऽकृत्। दे॒वम्। इन्द्र॑म्। अ॒व॒र्ध॒य॒त्। स्वि॑ष्ट॒मिति॒ सुऽइ॑ष्टम्। कु॒र्वन्। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। स्वि॑ष्ट॒मिति॒ सुऽइ॑ष्टम्। अ॒द्य। क॒रो॒तु॒। नः॒। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेयस्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥२२ ॥

Mantra without Swara
देवोऽअग्निः स्विष्टकृद्देवमिन्द्रमवर्धयत् । स्विष्टङ्कुर्वन्त्सि्वष्टकृत्स्विष्टमद्य करोतु नो वसुवने वसुधेयस्य वेतु यज ॥

देवः। अग्निः। स्विष्टकृदिति स्विष्टऽकृत्। देवम्। इन्द्रम्। अवर्धयत्। स्विष्टमिति सुऽइष्टम्। कुर्वन्। स्विष्टकृदिति स्विष्टऽकृत्। स्विष्टमिति सुऽइष्टम्। अद्य। करोतु। नः। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवः) दिव्यगुणः (अग्निः) पावकः (स्विष्टकृत्) यः शोभनमिष्टं करोति सः (देवम्) दिव्यगुणम् (इन्द्रम्) जीवम् (अवर्धयत्) वर्धयेत् (स्विष्टम्) शोभनञ्च तदिष्टम् (कुर्वन्) सम्पादयन् (स्विष्टकृत्) उत्तमेष्टकारी (स्विष्टम्) अतिशयेनाभीप्सितम् (अद्य) (करोतु) (नः) अस्मभ्यम् (वसुवने) (वसुधेयस्य) (वेतु) (यज)॥२२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा गुणकर्मस्वभावैर्विज्ञातः कर्मसु संप्रयुक्तोऽग्निरभीष्टानि कार्याणि साध्नोति तथा विद्वद्भिर्वर्तितव्यम्॥२२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यथा स्विष्टकृद् देवोऽग्निरिन्द्रं देवमवर्धयद्, यथा च स्विष्टं कुर्वन् स्विष्टकृत् सन्नग्निः स्विष्टं करोति, तथाऽद्य नः सुखं करोतु, धनं वेतु वसुधेयस्य वसुवने यज च॥२२॥