Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 21

46 Mantra
28/21
Devata- इन्द्रो देवता Rishi- अश्विनावृषी Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्र॑मवर्धयत्।स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम॒न्या ब॒र्हीष्य॒भ्यभूद् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥२१॥

दे॒वम्। ब॒र्हिः। वारि॑तीनाम्। दे॒वम्। इन्द्र॑म्। अ॒व॒र्द्ध॒य॒त्। स्वा॒स॒स्थमिति॑ सुऽआस॒स्थम्। इन्द्रे॑ण। आस॑न्न॒मित्याऽस॑न्नम्। अ॒न्या। ब॒र्हीषि॑। अ॒भि। अ॒भूत्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥२१ ॥

Mantra without Swara
देवम्बर्हिर्वारितीनान्देवमिन्द्रमवर्धयत् । स्वासस्थमिन्द्रेणासन्नमन्या बर्हीँष्यभ्यभूद्वसुवने वसुधेयस्य वेतु यज ॥

देवम्। बर्हिः। वारितीनाम्। देवम्। इन्द्रम्। अवर्द्धयत्। स्वासस्थमिति सुऽआसस्थम्। इन्द्रेण। आसन्नमित्याऽसन्नम्। अन्या। बर्हीषि। अभि। अभूत्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥२१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवम्) दिव्यम् (बर्हिः) अन्तरिक्षम् (वारितीनाम्) वरणीयानां पदार्थानां मध्ये (देवम्) दिव्यगुणम् (इन्द्रम्) विद्युतम् (अवर्धयत्) वर्धयति (स्वासस्थम्) सुष्ठ्वासते यस्मिँस्तम् (इन्द्रेण) ईश्वरेण (आसन्नम्) समीपस्थम् (अन्या) अन्यानि (बर्हींषि) अन्तरिक्षावयवाः (अभि) अभितः (अभूत्) भवेत् (वसुवने) पदार्थविद्यायाचिने (वसुधेयस्य) सर्वद्रव्याधारस्य जगतो मध्ये (वेतु) (यज)॥२१॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो! मनुष्या यूयं यथाऽभिव्याप्तमाकाशं सर्वान् पदार्थानभिव्याप्नोति, सर्वेषां समीपमस्ति, तथेश्वरस्य समीपवर्त्तिनं जीवं विज्ञायाऽस्मिन् संसारे सुपात्राय याचमानाय दानं ददत॥२१॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यथा देवं वारितीनां मध्ये वर्त्तमानं स्वासस्थमिन्द्रेण सहासन्नमिन्द्रं बर्हिर्देवमवर्धयदन्या बर्हींष्यभूद् वसुवने वसुधेयस्य वेतु तथा यज॥२१॥