Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 20

46 Mantra
28/20
Devata- इन्द्रो देवता Rishi- अश्विनावृषी Chhand- निचृदतिशक्वरी Swara- पञ्चमः
Mantra with Swara
दे॒वो दे॒वैर्वन॒स्पति॒र्हिर॑ण्यपर्णो॒ मधु॑शाखः सुपिप्प॒लो दे॒वमिन्द्र॑मवर्धयत्। दिव॒मग्रे॑णास्पृक्ष॒दान्तरि॑क्षं पृथि॒वीम॑दृꣳहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥२०॥

दे॒वः। दे॒वैः। वन॒स्पतिः॑। हिर॑ण्यपर्ण॒ इति॒ हिर॑ण्यऽपर्णः। मधु॑शाख इति॑ मधु॑ऽशाखः। सु॒पि॒प्प॒ल इति॑ सुऽपिप्प॒लः। दे॒वम्। इन्द्र॑म्। अ॒व॒र्ध॒य॒त्। दिव॑म्। अग्रे॑ण। अ॒स्पृ॒क्ष॒त्। आ। अ॒न्तरि॑क्षम्। पृ॒थि॒वीम्। अ॒दृ॒ꣳही॒त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒ऽधेय॒स्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥२० ॥

Mantra without Swara
देवो देवैर्वनस्पतिर्हिरण्यपर्णा मधुशाखः सुपिप्पलो देवमिन्द्रमवर्धयत् । दिवमग्रेणास्पृक्षदान्तरिक्सम्पृथिवीमदृँद्वसुवने वसुधेयस्य वेतु यज ॥

देवः। देवैः। वनस्पतिः। हिरण्यपर्ण इति हिरण्यऽपर्णः। मधुशाख इति मधुऽशाखः। सुपिप्पल इति सुऽपिप्पलः। देवम्। इन्द्रम्। अवर्धयत्। दिवम्। अग्रेण। अस्पृक्षत्। आ। अन्तरिक्षम्। पृथिवीम्। अदृꣳहीत्। वसुवन इति वसुऽवने। वसुऽधेयस्येति वसुऽधेयस्य। वेतु। यज॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवः) दिव्यगुणप्रदः (देवैः) देदीप्यमानैः (वनस्पतिः) किरणानां पालकः (हिरण्यपर्णः) हिरण्यानि तेजांसि पर्णानि यस्य सः (मधुशाखः) मधुराः शाखा यस्य (सुपिप्पलः) सुन्दरफलः (देवम्) दिव्यगुणम् (इन्द्रम्) दारिद्र्यविदारकम् (अवर्धयत्) वर्धयति (दिवम्) प्रकाशम् (अग्रेण) पुरस्सरेण (अस्पृक्षत्) स्पृहेत् (आ) समन्तात् (अन्तरिक्षम्) अवकाशम् (पृथिवीम्) भूमिम् (अदृंहीत्) धरेत् (वसुवने) वसुप्रदाय जीवाय (वसुधेयस्य) जगतः (वेतु) (यज)॥२०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा वनस्पतयो मेघं वर्द्धयन्ति सूर्यश्च लोकान् धरति तथा विद्वांसो विद्यायाचिनं विद्यार्थिनं वर्धयन्ति॥२०॥
Subject
पुनर्विद्वांसः किं कुर्वन्तीत्याह॥
Anvaya
हे विद्वन्! यथा देवैः सह वर्त्तमानो हिरण्यपर्णो मधुशाखः सुपिप्पलो देवो वनस्पतिर्देवमिन्द्रमवर्द्धयदग्रेण दिवमस्पृक्षदन्तरिक्षं तत्स्थांल्लोकान् पृथिवीञ्चादृंहीद् वसुवने वसुधेयस्य वेतु तथा यज॥२०॥