Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 2

46 Mantra
28/2
Devata- इन्द्रो देवता Rishi- बृहदुक्थो वामदेव ऋषिः Chhand- निचृदतिजगती Swara- निषादः
Mantra with Swara
होता॑ यक्ष॒त् तनू॒नपा॑तमू॒तिभि॒र्जेता॑र॒मप॑राजितम्। इन्द्रं॑ दे॒वस्व॒र्विदं॑ प॒थिभि॒र्मधु॑मत्तमै॒र्नरा॒शꣳसे॑न॒ तेज॑सा॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑॥२॥

होता॑। य॒क्ष॒त्। तनू॒नपा॑त॒मिति तनू॒ऽनपा॑तम्। ऊ॒तिभि॒रित्यू॒तिऽभिः॑। जेता॑रम्। अप॑राजित॒मित्यप॑राऽजितम्। इन्द्र॑म्। दे॒वम्। स्व॒र्विद॒मिति॑ स्वः॒ऽविद॑म्। प॒थिभि॒रिति॑ प॒थिऽभिः॑। मधु॑मत्तमै॒रिति॒ मधु॑मत्ऽतमैः। नरा॒शꣳसे॑न। तेज॑सा। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥२ ॥

Mantra without Swara
होता यक्षत्तनूनपातमूतिभिर्जेतारमपराजितम् । इन्द्रन्देवँ स्वर्विदम्पथिभिर्मधुमत्तमैर्नराशँसेन तेजसा वेत्वाज्यस्य होतर्यज ॥

होता। यक्षत्। तनूनपातमिति तनूऽनपातम्। ऊतिभिरित्यूतिऽभिः। जेतारम्। अपराजितमित्यपराऽजितम्। इन्द्रम्। देवम्। स्वर्विदमिति स्वःऽविदम्। पथिभिरिति पथिऽभिः। मधुमत्तमैरिति मधुमत्ऽतमैः। नराशꣳसेन। तेजसा। वेतु। आज्यस्य। होतः। यज॥२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) सुखस्य प्रदाता (यक्षत्) संगच्छेत् (तनूनपातम्) यः शरीराणि पाति तम् (ऊतिभिः) रक्षादिभिः (जेतारम्) जयशीलम् (अपराजितम्) अन्यैः पराजेतुमशक्यम् (इन्द्रम्) परमैश्वर्यकारकं राजानम् (देवम्) विद्याविनयाभ्यां सुशोभितम् (स्वर्विदम्) प्राप्तसुखम् (पथिभिः) धर्म्यैर्मार्गैः (मधुमत्तमैः) अतिशयेन मधुरजलादियुक्तैः (नराशंसेन) नरैराशंसितेन (तेजसा) प्रागल्भ्येन (वेतु) प्राप्नोतु (आज्यस्य) विज्ञेयम्। अत्र कर्मणि षष्ठी। (होतः) (यज) ॥२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यदि राजानः स्वयं न्यायमार्गेषु गच्छन्तः प्रजानां रक्षा विदध्युस्तेऽपराजितारः सन्तः शत्रूणां विजेतारः स्युः॥२॥
Subject
राजपुरुषाः कीदृशाः स्युरित्याह॥
Anvaya
हे होतर्भवान् यथा होतोतिभिर्मधुमत्तमैः पथिभिस्तनूनपातं जेतारमपराजितं स्वर्विदं देवमिन्द्रं यक्षत् नराशंसेन तेजसाऽऽज्यस्य वेतु तथा यज॥२॥