Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 19

46 Mantra
28/19
Devata- इन्द्रो देवता Rishi- अश्विनावृषी Chhand- कृतिः Swara- निषादः
Mantra with Swara
दे॒वऽइन्द्रो॒ नरा॒शꣳस॑स्त्रिवरू॒थस्॑ित्रबन्धु॒रो दे॒वमिन्द्र॑मवर्धयत्। श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः स॒हस्रे॑ण॒ प्र व॑र्त्तते मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑ स्तो॒त्रम॒श्विनाऽध्व॑र्यवं वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥१९॥

दे॒वः। इन्द्रः॑। नरा॒शꣳसः॑। त्रि॒व॒रू॒थ इति॑ त्रिऽवरू॒थः। त्रि॒व॒न्धु॒र इति॑ त्रिऽबन्धु॒रः। दे॒वम्। इन्द्र॑म्। अ॒व॒र्ध॒य॒त्। श॒तेन॑। शि॒ति॒पृ॒ष्ठाना॒मिति॑ शितिऽपृ॒ष्ठाना॑म्। आहि॑त॒ इत्याहि॑तः। स॒हस्रे॑ण। प्र। व॒र्त्त॒ते॒। मि॒त्रावरु॑णा। इत्। अ॒स्य॒। हो॒त्रम्। अर्ह॑तः। बृह॒स्पतिः॑। स्तो॒त्रम्। अ॒श्विना॑। अध्व॑र्यवम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥१९ ॥

Mantra without Swara
देवऽइन्द्रो नराशँसस्त्रिवरूथस्त्रिबन्धुरो देवमिन्द्रमवर्धयत् । शतेन शितिपृष्ठानामाहितः सहस्रेण प्र वर्तते मित्रावरुणेदस्य होत्रमर्हतो बृहस्पति स्तोत्रमश्विनाध्वर्यवँवसुवने वसुधेयस्य वेतु यज ॥

देवः। इन्द्रः। नराशꣳसः। त्रिवरूथ इति त्रिऽवरूथः। त्रिवन्धुर इति त्रिऽबन्धुरः। देवम्। इन्द्रम्। अवर्धयत्। शतेन। शितिपृष्ठानामिति शितिऽपृष्ठानाम्। आहित इत्याहितः। सहस्रेण। प्र। वर्त्तते। मित्रावरुणा। इत्। अस्य। होत्रम्। अर्हतः। बृहस्पतिः। स्तोत्रम्। अश्विना। अध्वर्यवम्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥१९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवः) जीवः (इन्द्रः) ऐश्वर्यमिच्छुकः (नराशंसः) यो नराञ्छंसति स्तौति सः (त्रिवरूथः) त्रीणि त्रिविधसुखप्रदानि वरूथानि गृहाणि यस्य सः (त्रिबन्धुरः) त्रयो बन्धुरा बन्धनानि यस्य सः (देवम्) देदीप्यमानम् (इन्द्रम्) विद्युतम् (अवर्द्धयत्) वर्धयेत् (शतेन) एतत्सङ्ख्याकेन कर्मणा (शितिपृष्ठानाम्) शितयस्तीक्ष्णा गतयः पृष्ठे येषान्तेषाम् (आहितः) समन्ताद् धृतः (सहस्रेण) असङ्ख्येन पुरुषार्थेन (प्र, वर्त्तते) (मित्रावरुणा) प्राणोदानौ (इत्) एव (अस्य) जीवस्य (होत्रम्) अदनम् (अर्हतः) (बृहस्पतिः) बृहतां पालको विद्युद् रूपोऽग्निः (स्तोत्रम्) स्तुवन्ति येन तत् (अश्विना) सूर्याचन्द्रमसौ (अध्वर्यवम्) य आत्मनोऽध्वरमिच्छति तम्। अत्र वाच्छन्दसीत्यस्यपि गुणावादेशौ (वसुवने) यो वसूनि वनुते याचते तस्मै (वसुधेयस्य) संसारस्य (वेतु) (यज)॥१९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्यास्त्रिविधसुखकराणि त्रैकाल्यप्रबन्धानि गृहाणि रचयित्वाऽसङ्ख्यं सुखमवाप्य पथ्यं भोजनं कृत्वा याचमानाय यथायोग्यं वस्तु ददति ते कीर्तिं लभन्ते॥१९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यथा त्रिबन्धुरस्त्रिवरूथो नराशंसो देव इन्द्रः शतेनेन्द्रं देवमवर्धयद्, यः शितिपृष्ठानां मध्य आहितः सहस्रेण प्रवर्त्तते, मित्रावरुणास्येद्धोत्रमर्हतो वसुधेयस्य बृहस्पतिः स्तोत्रमश्विनाऽध्वर्यवं वसुवने वेतु तथा यज॥१९॥