Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 18

46 Mantra
28/18
Devata- इन्द्रो देवता Rishi- अश्विनावृषी Chhand- अतिजगती Swara- निषादः
Mantra with Swara
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॒मिन्द्र॑मवर्धयन्। अस्पृ॑क्ष॒द् भाार॑ती॒ दिव॑ꣳ रु॒द्रैर्य॒ज्ञꣳ सर॑स्व॒तीडा॒ वसु॑मती गृ॒हान् व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑॥१८॥

दे॒वीः। ति॒स्रः। ति॒स्रः। दे॒वीः। पति॑म्। इन्द्र॑म्। अ॒व॒र्ध॒य॒न्। अस्पृ॑क्षत्। भार॑ती। दिव॑म्। रु॒द्रैः। य॒ज्ञम्। सर॑स्वती। इडा॑। वसु॑म॒तीति॒ वसु॑ऽमती। गृ॒हान्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑ ॥१८ ॥

Mantra without Swara
देवीस्तिस्रस्तिस्रो देवीः पतिमिन्द्रमवर्धयन् । अस्पृक्षद्भारती दिवँ रुद्रैर्यज्ञँ सरस्वतीडा वसुमती गृहान्वसुवने वसुधेयस्य व्यन्तु यज ॥

देवीः। तिस्रः। तिस्रः। देवीः। पतिम्। इन्द्रम्। अवर्धयन्। अस्पृक्षत्। भारती। दिवम्। रुद्रैः। यज्ञम्। सरस्वती। इडा। वसुमतीति वसुऽमती। गृहान्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। व्यन्तु। यज॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवीः) देव्यः (तिस्रः) त्रित्वसंख्याकाः (तिस्रः) पुनरुक्तमतिशयबोधनार्थम् (देवीः) दिव्याः क्रियाः (पतिम्) पालकम् (इन्द्रम्) सूर्यमिव जीवम् (अवर्द्धयन्) वर्द्धयन्ति (अस्पृक्षत्) स्पृहेत् (भारती) धारिका (दिवम्) प्रकाशम् (रुद्रैः) प्राणैः (यज्ञम्) सङ्गन्तव्यं व्यवहारम् (सरस्वती) विज्ञानयुक्ता वाक् (इडा) प्रशंसनीया वाणी (वसुमती) बहूनि वसूनि द्रव्याणि विद्यन्ते यस्यां सा (गृहान्) गृहस्थान् गृहाणि वा (वसुवने) (वसुधेयस्य) (व्यन्तु) (यज)॥१८॥
Essence
यथा जलाग्निवायुगतयो दिव्याः क्रियाः सूर्यप्रकाशं च वर्द्धयन्ति, तथा ये मनुष्याः सकलविद्याधारिकामखिलक्रियाहेतुं सर्वदोषगुणविज्ञापिकां त्रिविधां वाचं विजानन्ति, तेऽस्मिन् सर्वद्रव्याकरे संसारे श्रियमाप्नुवन्ति॥१८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! या रुद्रैर्भारती दिवं सरस्वती यज्ञं वसुमतीडा गृहान् धरन्त्यो देवीस्तिस्रस्तिस्रो देवीः पतिमिन्द्रञ्चावर्द्धयन् वसुधेयस्य वसुवने गृहान् व्यन्तु तास्त्वं यज भवानस्पृक्षत्॥१८॥