Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 13

46 Mantra
28/13
Devata- इन्द्रो देवता Rishi- अश्विनावृषी Chhand- भुरिक् शक्वरी Swara- धैवतः
Mantra with Swara
दे॒वीर्द्वार॒ऽ इन्द्र॑ꣳसङ्घा॒ते वी॒ड्वीर्याम॑न्नवर्द्धयन्। आ व॒त्सेन॒ तरु॑णेन कुमा॒रेण॑ च मीव॒तापार्वा॑णꣳ रे॒णुक॑काटं नुदन्तां वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑॥१३॥

दे॒वीः। द्वारः॑। इन्द्र॑म्। स॒ङ्घा॒त इति॑ सम्ऽघा॒ते। वी॒ड्वीः। याम॑न्। अ॒व॒र्द्ध॒य॒न्। आ। व॒त्सेन॑। तरु॑णेन। कु॒मा॒रेण॑। च॒। मी॒व॒ता। अप॑। अर्वा॑णम्। रे॒णुक॑काट॒मिति॑ रे॒णुऽक॑काटम्। नु॒द॒न्ता॒म्। वसु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑ ॥१३ ॥

Mantra without Swara
देवीर्द्वारऽइन्द्रँ सङ्घाते वीड्वीर्यामन्नवर्धयन् । आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणँ रेणुककाटन्नुदन्ताँवसुवने वसुधेयस्य व्यन्तु यज ॥

देवीः। द्वारः। इन्द्रम्। सङ्घात इति सम्ऽघाते। वीड्वीः। यामन्। अवर्द्धयन्। आ। वत्सेन। तरुणेन। कुमारेण। च। मीवता। अप। अर्वाणम्। रेणुककाटमिति रेणुऽककाटम्। नुदन्ताम्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। व्यन्तु। यज॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवीः) देदीप्यमानाः (द्वारः) द्वाराणि (इन्द्रम्) ऐश्वर्यम् (सङ्घाते) सम्बन्धे (वीड्वीः) विशेषेण स्तोतुं योग्याः (यामन्) यामनि मार्गे (अवर्द्धयन्) वर्द्धयन्ति (आ) (वत्सेन) वत्सवद् वर्त्तमानेन (तरुणेन) युवाऽवस्थेन (कुमारेण) अकृतविवाहेन (च) (मीवता) हिंसता (अप) (अर्वाणम्) गच्छन्तमश्वम् (रेणुककाटम्) रेणुकैर्युक्तं कूपम् (नुदन्ताम्) प्रेरयन्तु (वसुवने) (वसुधेयस्य) (व्यन्तु) प्राप्नुवन्तु (यज)॥१३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा पथिका मार्गे वर्त्तमानं कूपं निवार्य शुद्धं मार्गं कृत्वा प्राणिनः सुखेन गमयन्ति, तथा बाल्यावस्थायां विवाहादीन् विघ्नान् निवार्य विद्यां प्रापय्य स्वसन्तानान् सुखमार्गे गमयन्तु॥१३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यथा वीड्वीर्देवीर्द्वारो रेणुककाटं यामन् वर्जयित्वा तरुणेन मीवता कुमारेण वत्सेन च सह वर्त्तमानमर्वाणमिन्द्रमावर्द्धयन् वसुवने सङ्घाते वसुधेयस्य विघ्नमप नुदन्तां वयन्तु तथा यज॥१३॥