Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 12

46 Mantra
28/12
Devata- इन्द्रो देवता Rishi- अश्विनावृषी Chhand- निचृदतिजगती Swara- निषादः
Mantra with Swara
दे॒वं ब॒र्हिरिन्द्र॑ꣳ सुदे॒वं दे॒वैर्वी॒रव॑त् स्ती॒र्णं वेद्या॑मवर्द्धयत्।वस्तो॑र्वृ॒तं प्राक्तोर्भृ॒तꣳ रा॒या ब॒र्हिष्म॒तोऽत्य॑गाद् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥१२॥

दे॒वम्। ब॒र्हिः। इन्द्र॑म्। सु॒दे॒वमिति॑ सुऽदे॒वम्। दे॒वैः। वी॒रव॒दिति॑ वी॒रऽव॑त्। स्ती॒र्णम्। वेद्या॑म्। अ॒व॒र्द्ध॒य॒त्। वस्तोः॑। वृ॒तम्। प्र। अ॒क्तोः। भृ॒तम्। रा॒या। ब॒र्हिष्म॑तः। अति॑। अ॒गा॒त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥१२ ॥

Mantra without Swara
देवम्बर्हिरिन्द्रँ सुदेवन्देवैर्वीरवत्स्तीर्णँवेद्यामवर्धयत् । वस्तोर्वृतम्प्राक्तोर्भृतँ राया बर्हिष्मतो त्यगाद्वसुवने वसुधेयस्य वेतु यज ॥

देवम्। बर्हिः। इन्द्रम्। सुदेवमिति सुऽदेवम्। देवैः। वीरवदिति वीरऽवत्। स्तीर्णम्। वेद्याम्। अवर्द्धयत्। वस्तोः। वृतम्। प्र। अक्तोः। भृतम्। राया। बर्हिष्मतः। अति। अगात्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवम्) दिव्यगुणम् (बर्हिः) अन्तरिक्षमिव। बर्हिरित्यन्तरिक्षना॰ (निघं॰१।३) (इन्द्रम्) परमैश्वर्यकारकम् (सुदेवम्) शोभनं विद्वांसम् (देवैः) विद्वद्भिः (वीरवत्) वीरैस्तुल्यम् (स्तीर्णम्) काष्ठैर्हविषा चाऽऽच्छादनीयम् (वेद्याम्) हवनाधारे कुण्डे (अवर्द्धयत्) वर्द्धयेत् (वस्तोः) दिने (वृतम्) स्वीकृतम् (प्र) (अक्तोः) रात्रौ (भृतम्) धृतम् (राया) धनेन (बर्हिष्मतः) अन्तरिक्षस्य सम्बन्धो विद्यते येषां तान् (अति) उल्लङ्घने (अगात्) गच्छति (वसुवने) धनानां संविभागे (वसुधेयस्य) वसूनि धेयानि यस्मिँस्तस्य जगतः (वेतु) (यज)॥१२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा यजमानो वेद्यां समित्सु चितं हुतघृतमग्निं वर्द्धयित्वाऽन्तरिक्षस्थानि वायुजलादीनि शोधयित्वा रोगनिवारणेन सर्वान् प्राणिनः प्रीणयति, तथैव सज्जना जना धनादिना सर्वान् सुखयन्ति॥१२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यथा बर्हिष्मतोऽत्यगाद् वसुधेयस्य वसुवने वेद्यां स्तीर्णं वस्तोर्वृतमक्तोर्भृतं हुतं द्रव्यं नैरोग्यं प्रावर्द्धयत् सुखं वेतु तथा बर्हिरिव राया सह देवं देवैः सह वीरवद्वर्त्तमानं सुदेवमिन्द्रं यज॥१२॥