Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 28 / Mantra 10

46 Mantra
28/10
Devata- बृहस्पतिर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- स्वराडतिजगती Swara- निषादः
Mantra with Swara
होता॑ यक्ष॒द् वन॒स्पति॑ꣳशमि॒तार॑ꣳ श॒तक्र॑तुं धि॒यो जो॒ष्टार॑मिन्द्रि॒यम्।मध्वा॑ सम॒ञ्जन् प॒थिभिः॑ सु॒गेभिः॒ स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑॥१०॥

होता॑। य॒क्ष॒त्। वन॒स्पति॑म्। श॒मि॒तार॑म्। श॒तक्र॑तु॒मिति॑ श॒तऽक्र॑तुम्। धि॒यः। जो॒ष्टार॑म्। इ॒न्द्रि॒यम्। मध्वा॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। प॒थिभि॒रिति॑ प॒थिऽभिः॑। सु॒गेभि॒रिति॑ सु॒ऽगेभिः॑। स्वदा॑ति। य॒ज्ञम्। मधु॑ना। घृ॒तेन॑। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥१० ॥

Mantra without Swara
होता यक्षद्वनस्पतिँ शमितारँ शतक्रतुन्धियो जोष्टारमिन्द्रियम् । मध्वा समञ्जन्पथिभिः सुगेभिः स्वदाति यज्ञम्मधुना घृतेन वेत्वाज्यस्य होतर्यज ॥

होता। यक्षत्। वनस्पतिम्। शमितारम्। शतक्रतुमिति शतऽक्रतुम्। धियः। जोष्टारम्। इन्द्रियम्। मध्वा। समञ्जन्निति सम्ऽअञ्जन्। पथिभिरिति पथिऽभिः। सुगेभिरिति सुऽगेभिः। स्वदाति। यज्ञम्। मधुना। घृतेन। वेतु। आज्यस्य। होतः। यज॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) (यक्षत्) (वनस्पतिम्) वनानां किरणानां स्वामिनं सूर्यम् (शमितारम्) यजमानम् (शतक्रतुम्) असंख्यातप्रज्ञम् (धियः) प्रज्ञायाः कर्मणो वा (जोष्टारम्) प्रीतं सेवमानम् (इन्द्रियम्) धनम् (मध्वा) मधुरेण विज्ञानेन (समञ्जन्) सम्यक् प्रकटयन् (पथिभिः) मार्गैः (सुगेभिः) सुखेन गमनाधिकरणैः (स्वदाति) आस्वदेत। अत्र व्यत्ययेन परस्मैपदम्। (यज्ञम्) संगतं व्यवहारम् (मधुना) मधुरेण (घृतेन) आज्येनोदकेन वा (वेतु) व्याप्नोतु (आज्यस्य) विज्ञेयस्य संसारस्य (होतः) दातर्जन (यज) प्राप्नुहि॥१०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यवद्विद्याप्रज्ञाधर्मैश्वर्यप्रापका धर्म्ममार्गैर्गच्छन्तः सुखानि भुञ्जीरंस्तेऽन्येषामपि सुखप्रदा भवन्ति॥१०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतर्यथा होता वनस्पतिमिव शमितारं शतक्रतुं धियो जोष्टारं यक्षन्मध्वा सुगेभिः पथिभिराज्यस्येन्द्रियं समञ्जन् स्वदाति मधुना घृतेन यक्षं वेतु तथा यज॥१०॥