Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 9

45 Mantra
27/9
Devata- अश्व्यादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पतेऽ अ॒भिश॑स्ते॒रमु॑ञ्चः।प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद् दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः॥९॥

अ॒मु॒त्र॒भूया॒दित्य॑मुत्र॒ऽभूया॑त्। अध॑। यत्। य॒मस्य॑। बृह॑स्पते। अ॒भिश॑स्ते॒रित्य॒भिऽश॑स्तेः। अमु॑ञ्चः। प्रति॑। औ॒ह॒ता॒म्। अ॒श्विना॑। मृ॒त्युम्। अ॒स्मा॒त्। दे॒वाना॑म्। अ॒ग्ने॒। भि॒षजा॑। शची॑भिः ॥९ ॥

Mantra without Swara
अमुत्रभूयादध यद्यमस्य बृहस्पतेऽअभिसस्तेरमुञ्चः । प्रत्औहतामश्विना मृत्युमस्माद्देवानामग्ने भिषजा शचीभिः ॥

अमुत्रभूयादित्यमुत्रऽभूयात्। अध। यत्। यमस्य। बृहस्पते। अभिशस्तेरित्यभिऽशस्तेः। अमुञ्चः। प्रति। आैहताम्। अश्विना। मृत्युम्। अस्मात्। देवानाम्। अग्ने। भिषजा। शचीभिः॥९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अमुत्रभूयात्) परजन्मनि भाविनः। अत्रामुत्रोपपदाद् भूधातो क्यप्। (अध) अथ (यत्) (यमस्य) नियन्तुः (बृहस्पते) महतां पालक (अभिशस्तेः) सर्वतोऽपराधात् (अमुञ्चः) मुच्याः (प्रति) (औहताम्) वितर्केण साध्नुताम् (अश्विना) अध्यापकोपदेशकौ (मृत्युम्) (अस्मात्) (देवानाम्) (अग्ने) सद्वैद्य (भिषजा) औषधानि (शचीभिः) कर्मभिः प्रज्ञाभिर्वा॥९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। त एव श्रेष्ठा अध्यापकोपदेशका येऽत्र परत्र च सुखाय सर्वान् सुशिक्षयेयुः, येन ब्रह्मचर्यादीनि कर्माणि सेवयित्वा मनुष्या अल्पमृत्युमानन्दहानिं च नाप्नुयुः॥९॥
Subject
अथाध्यापकोपदेशकैः किं कार्यमित्याह॥
Anvaya
हे बृहस्पते! त्वममुत्रभूयादभिशस्तेरेनममुञ्चः। अध यद्यो यमस्य शासने तिष्ठेत् तस्य मृत्युममुञ्चः। हे अग्ने! त्वं यथाऽश्विना शचीभिर्भिषजा प्रत्यौहतां तथाऽस्माद् देवानामारोग्यं सम्पादय॥९॥