Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 7

45 Mantra
27/7
Devata- अग्निर्देवता Rishi- अग्निर्ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ऽ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद् दी॑दिही॒ह।विश्वा॒ऽ आशाः॑ प्रमु॒ञ्चन् मानु॑षीर्भि॒यः शि॒वेभि॑र॒द्य परि॑ पाहि नो वृ॒धे॥७॥

अ॒ना॒धृ॒ष्यः। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। अनि॑ष्टृतः। अनि॑स्तृत॒ इत्यनि॑ऽस्तृतः। वि॒राडिति॑ वि॒ऽराट्। अग्ने॑। क्ष॒त्र॒भृदिति॑ क्षत्र॒ऽभृत्। दी॒दिहि॒। इ॒ह ॥ विश्वाः॑। आशाः॑। प्र॒मु॒ञ्चन्निति॑ प्रऽमु॒ञ्चन्। मानु॑षीः। भि॒यः। शि॒वेभिः॑। अ॒द्य। परि॑। पा॒हि॒। नः॒। वृ॒धे ॥७ ॥

Mantra without Swara
अनाधृष्यो जातवेदाऽअनाधृष्टो विराडग्ने क्षत्रभृद्दीदिहीह । विश्वाऽआशाः प्रमुञ्चन्मानुषीर्भयः शिवेभिरद्य परि पाहि नो वृधे ॥

अनाधृष्यः। जातवेदा इति जातऽवेदाः। अनिष्टृतः। अनिस्तृत इत्यनिऽस्तृतः। विराडिति विऽराट्। अग्ने। क्षत्रभृदिति क्षत्रऽभृत्। दीदिहि। इह॥ विश्वाः। आशाः। प्रमुञ्चन्निति प्रऽमुञ्चन्। मानुषीः। भियः। शिवेभिः। अद्य। परि। पाहि। नः। वृधे॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अनाधृष्यः) अन्यैर्धर्षितुमयोग्यः (जातवेदाः) जातविद्यः (अनिष्टृतः) दुःखात् पृथग्भूतः (विराट्) विशेषेण राजमानः (अग्ने) सुसंगृहीतराजनीते (क्षत्रभृत्) यः क्षत्रं राज्यं बिभर्ति सः (दीदिहि) कामय (इह) अस्मिन् राज्यव्यवहारे (विश्वाः) सकलाः (आशाः) दिशः (प्रमुञ्चन्) प्रकर्षेण मुक्ताः कुर्वन् (मानुषीः) मनुष्यसम्बन्धिनी (भियः) रोगदोषादिकाः (शिवेभिः) कल्याणकारिभिः सभ्यैः (अद्य) इदानीम् (परि) सर्वतः (पाहि) रक्ष (नः) अस्मान् (वृधे) वर्धनाय॥७॥
Essence
ये राजराजपुरुषाः प्रजाः सन्तोष्य मङ्गलाचरणाः सर्वविद्यान्यायप्रियाः सन्तः प्रजाः पालयेयुस्ते सर्वदिक्प्रवृत्तकीर्त्तयः स्युः॥७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अग्ने! योऽद्येह मानुषीर्भियो नाशय, शिवेभिश्च सहानिष्टृतोऽनाधृष्यो जातवेदा विराट् क्षत्रभृदस्ति, स त्वं नो दीदिहि, विश्वा आशाः प्रमुञ्चँस्त्वं नो वृधे परि पाहि॥७॥