Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 5

45 Mantra
27/5
Devata- अग्निर्देवता Rishi- अग्निर्ऋषिः Chhand- स्वराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
क्ष॒त्रेणा॑ग्ने॒ स्वायुः सꣳर॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व।स॒जा॒तानां॑ मध्यम॒स्थाऽ ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो दीदिही॒ह॥५॥

क्ष॒त्रेण॑। अ॒ग्ने॒। स्वायु॒रिति॑ सु॒ऽआयुः॑। सम्। र॒भ॒स्व॒। मि॒त्रेण॑। अ॒ग्ने॒। मि॒त्र॒धेय॒ इति॑ मित्र॒ऽधेये॑। य॒त॒स्व॒ ॥ स॒जा॒ताना॒मिति॑ सऽजा॒ताना॑म्। म॒ध्य॒म॒स्था इति॑ मध्यम॒ऽस्थाः। ए॒धि॒। राज्ञा॑म्। अ॒ग्ने॒। वि॒ह॒व्य᳖ इति॑ विऽह॒व्यः᳖। दी॒दि॒हि॒। इ॒ह ॥५ ॥

Mantra without Swara
क्षत्रेणाग्ने स्वायुः सँ रभस्व मित्रेणाग्ने मित्रधेये यतस्व । सजातानाम्मध्यमस्थाऽएधि राज्ञामग्ने विहव्यो दीदिहीह ॥

क्षत्रेण। अग्ने। स्वायुरिति सुऽआयुः। सम्। रभस्व। मित्रेण। अग्ने। मित्रधेय इति मित्रऽधेये। यतस्व॥ सजातानामिति सऽजातानाम्। मध्यमस्था इति मध्यमऽस्थाः। एधि। राज्ञाम्। अग्ने। विहव्य इति विऽहव्यः। दीदिहि। इह॥५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(क्षत्रेण) राज्येन धनेन वा (अग्ने) पावकवत् तेजस्विन् (स्वायुः) शोभनं च तदायुश्च (सम्) सम्यक् (रभस्व) आरम्भं कुरु (मित्रेण) धार्मिकैर्विद्वद्भिर्मित्रैः सह (अग्ने) विद्याविनयप्रकाशक (मित्रधेये) मित्रैर्धर्त्तव्ये व्यवहारे (यतस्व) (सजातानाम्) समानजन्मनाम् (मध्यमस्थाः) मध्ये भवा मध्यमा पक्षपातरहितास्तेषु तिष्ठतीति (एधि) भव (राज्ञाम्) धार्मिकाणां राजाधिराजानां मध्ये (अग्ने) न्यायप्रकाशक (विहव्यः) विशेषेण स्तोतुं योग्यः (दीदिहि) प्रकाशितो भव (इह) अस्मिन् संसारे राज्याधिकारे वा॥५॥
Essence
राजा सदा ब्रह्मचर्येण दीर्घायुः सत्यधर्मप्रियैरमात्यैः सह मन्त्रयिताऽन्यैः राजभिः सह सुसन्धिः पक्षपातं विहाय न्यायाधीशः सर्वैः सुलक्षणैर्युक्तः सन् दुष्टव्यसनविरहो भूत्वा धर्मार्थकाममोक्षान् धैर्येण शान्त्याऽप्रमादेन च शनैश्शनैः साधयेत्॥५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अग्ने! त्वमिह क्षत्रेण सह स्वायुः संरभस्व। हे अग्ने! मित्रेण सह मित्रधेये यतस्व। हे अग्ने! सजातानां राज्ञां मध्ये मध्यमस्था एधि। विहव्यः सन् दीदिहि च॥५॥