Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 45

45 Mantra
27/45
Devata- अग्निर्देवता Rishi- शंयुर्ऋषिः Chhand- निचृदभिकृतिः Swara- ऋषभः
Mantra with Swara
सं॒व॒त्स॒रोऽसि परिवत्स॒रोऽसीदावत्स॒रोऽसीद्वत्स॒रोऽसि वत्स॒रोऽसि। उ॒षस॑स्ते कल्पन्तामहोरा॒त्रास्ते॑ कल्पन्तामर्द्धमा॒सास्ते॑ कल्पन्तां॒ मासा॑स्ते कल्पन्तामृ॒तव॑स्ते कल्पन्ता संवत्स॑रस्ते॑ कल्पताम्। प्रेत्या॒ऽएत्यै॒ सं चाञ्च॒ प्र च॑ सारय। सु॒प॒र्ण॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वः सी॑द॥४५॥

सं॒व॒त्स॒रः। अ॒सि॒। प॒रि॒व॒त्स॒र इति॑ परिऽवत्स॒रः। अ॒सि॒। इ॒दा॒व॒त्स॒र। इती॑दाऽवत्स॒रः। अ॒सि॒। इ॒द्व॒त्स॒र इती॑त्ऽवत्स॒रः। अ॒सि॒। व॒त्स॒रः। अ॒सि॒। उ॒षसः॑। ते॒। क॒ल्प॒न्ता॒म्। अ॒हो॒रा॒त्राः। ते॒ क॒ल्प॒न्ता॒म्। अ॒र्द्ध॒मा॒साऽइत्य॑र्द्धऽमा॒साः। ते॒। क॒ल्प॒न्ता॒म्। मासाः॑। ते॒। क॒ल्प॒न्ता॒म्। ऋ॒तवः॑। ते॒। क॒ल्प॒न्ता॒म्। सं॒व॒त्स॒रः। ते॒। क॒ल्प॒ता॒म्। प्रेत्या॒ इति॒ प्रऽइ॑त्यै। एत्या॒ऽ इत्याऽइ॑त्यै। सम्। च॒। अञ्च॑। प्र। च॒। सा॒र॒य॒। सु॒प॒र्ण॒चिदिति॑ सुपर्ण॒ऽचित्। अ॒सि॒। तया॑। दे॒वत॑याः। अ॒ङ्गि॒र॒स्वदित्य॑ङ्गिरः॒ऽवत्। ध्रु॒वः। सी॒द॒ ॥४५ ॥

Mantra without Swara
सँवत्सरोसि परिवत्सरोसीदावत्सरोसीद्वत्सरोसि वत्सरोसि । उषसस्ते कल्पन्तामहोरात्रास्ते कल्पन्तामर्धमासास्ते कल्पन्ताम्मासास्ते कल्पन्तामृतवस्ते कल्पन्ताँ सँवत्सरस्ते कल्पताम् । प्रेत्याऽएत्यै सञ्चाञ्च प्र च सारय । सुपर्णचिदसि तया देवतयाङ्गिरस्वद्धरुवः सीद ॥

संवत्सरः। असि। परिवत्सर इति परिऽवत्सरः। असि। इदावत्सर। इतीदाऽवत्सरः। असि। इद्वत्सर इतीत्ऽवत्सरः। असि। वत्सरः। असि। उषसः। ते। कल्पन्ताम्। अहोरात्राः। ते कल्पन्ताम्। अर्द्धमासाऽइत्यर्द्धऽमासाः। ते। कल्पन्ताम्। मासाः। ते। कल्पन्ताम्। ऋतवः। ते। कल्पन्ताम्। संवत्सरः। ते। कल्पताम्। प्रेत्या इति प्रऽइत्यै। एत्याऽ इत्याऽइत्यै। सम्। च। अञ्च। प्र। च। सारय। सुपर्णचिदिति सुपर्णऽचित्। असि। तया। देवतयाः। अङ्गिरस्वदित्यङ्गिरःऽवत्। ध्रुवः। सीद॥४५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(संवत्सरः) संवत्सर इव नियमेन वर्त्तमानः (असि) (परिवत्सरः) वर्जितव्यो वत्सर इव दुष्टाचारत्यागी (असि) (इदावत्सरः) निश्चयेन समन्ताद् वर्त्तमानः संवत्सर इव (असि) (इद्वत्सरः) निश्चितसंवत्सर इव (असि) (वत्सरः) वर्ष इव (असि) (उषसः) प्रभाताः (ते) तुभ्यम् (कल्पन्ताम्) समर्था भवन्तु। (अहोरात्राः) रात्रिदिनानि (ते) (कल्पन्ताम्) (अर्द्धमासाः) सितासिताः पक्षाः (ते) (कल्पन्ताम्) (मासाः) चैत्रादयः (ते) (कल्पन्ताम्) (ऋतवः) वसन्ताद्याः (ते) (कल्पन्ताम्) (संवत्सरः) (ते) (कल्पताम्) (प्रेत्यै) प्रकृष्टेन प्राप्त्यै (एत्यै) समन्ताद् गत्यै (सम्) सम्यक् (च) (अञ्च) प्राप्नुहि (प्र) (च) (सारय) (सुपर्णचित्) यः शोभनानि पर्णानि पालनानि चिनोति सः (असि) (तया) (देवतया) दिव्यगुणयुक्तया समयरूपया (अङ्गिरस्वत्) सूत्रात्मप्राणवत् (ध्रुवः) दृढः (सीद) स्थिरो भव॥४५॥
Essence
य आप्ता मनुष्या व्यर्थं कालं न नयन्ति सुनियमैर्वर्त्तमानाः कर्त्तव्यानि कुर्वन्ति, त्यक्तव्यानि त्यजन्ति, तेषां सुप्रभातः शोभना अहोरात्रा अर्द्धमासा मासा ऋतवश्च गच्छन्ति। तस्मात् प्रकर्षगतये प्रयत्य सुमार्गेण गत्वा शुभान् गुणान् सुखानि च प्रसारयेयुः। सुलक्षणया वाचा पत्न्या च सहिता धर्मग्रहणेऽधर्मत्यागे च दृढोत्साहाः सदा भवेयुरिति॥४५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन् जिज्ञासो! वा यतस्त्वं संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोऽसीद्वत्सरोऽसि वत्सरोऽसि तत्मात् ते कल्याणकर्य्य उषसः कल्पन्तां ते मङ्गलप्रदा अहोरात्राः कल्पन्तां तेऽर्द्धमासाः कल्पन्तां ते मासाः कल्पन्तां त ऋतवः कल्पन्तां ते संवत्सरः कल्पतां त्वं च प्रेत्यै समञ्च त्वमेत्यै स्वप्रभावं प्रसारय च यतस्त्वं सुपर्णचिदसि तस्मात् तया देवतया सहाङ्गिरस्वद् ध्रुवः सीद॥४५॥