Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 29

45 Mantra
27/29
Devata- वायुर्देवता Rishi- गृत्समद ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
नि॒युत्वा॑न् वाय॒वा ग॑ह्य॒यꣳ शु॒क्रोऽ अ॑यामि ते। गन्ता॑सि सुन्व॒तो गृ॒हम्॥२९॥

नि॒युत्वा॑न्। वा॒यो॒ इति॑ वायो। आ। ग॒हि॒। अ॒यम्। शु॒क्रः। अ॒या॒मि॒। ते॒। गन्ता॑। अ॒सि॒। सु॒न्व॒तः। गृ॒हम् ॥२९ ॥

Mantra without Swara
नियुत्वान्वायवागह्ययँ शुक्रोऽअयामि ते । गन्तासि सुन्वतो गृहम् ॥

नियुत्वान्। वायो इति वायो। आ। गहि। अयम्। शुक्रः। अयामि। ते। गन्ता। असि। सुन्वतः। गृहम्॥२९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नियुत्वान्) नियन्ता (वायो) पवन इव (आ) (गहि) समन्तात् प्राप्नुहि (अयम्) (शुक्रः) पवित्रकर्त्ता (अयामि) प्राप्नोमि (ते) तव (गन्ता) (असि) (सुन्वतः) अभिषवं कुर्वतः (गृहम्)॥२९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा वायुः सर्वशोधकः सर्वत्र गन्ता सर्वप्रियोऽस्ति, तथेश्वरोऽपि वर्त्तते॥२९॥
Subject
अथेश्वरः कीदृश इत्याह॥
Anvaya
हे वायो! नियुत्वानीश्वरस्त्वं यथाऽयं शुक्रो गन्ता वायुः सुन्वतो गृहं गच्छति, तथा मामागहि। यतस्त्वमीश्वरोऽसि तस्मात् ते स्वरूपमहमयामि॥२९॥