Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 27 / Mantra 28

45 Mantra
27/28
Devata- वायुर्देवता Rishi- वसिष्ठ ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रꣳ स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम्। वायो॑ऽ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः॥२८॥

आ। नः॒। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। श॒तिनी॑भिः। अ॒ध्व॒रम्। स॒ह॒स्रिणी॑भिः। उप॑। या॒हि॒। य॒ज्ञम्। वायो॒ इति॒ वायो॑। अ॒स्मिन्। सव॑ने। मा॒द॒य॒स्व॒। यू॒यम्। पा॒त॒। स्व॒स्तिभि॒रिति॑ स्व॒स्तिऽभिः॑। सदा॑। नः॒ ॥२८ ॥

Mantra without Swara
आ नो नियुद्भिः शतिनीभिरध्वरँ सहस्रिणीभिरुप याहि यज्ञम् । वायोऽअस्मिन्सवने मादयस्व यूयम्पात स्वस्तिभिः सदा नः ॥

आ। नः। नियुद्भिरिति नियुत्ऽभिः। शतिनीभिः। अध्वरम्। सहस्रिणीभिः। उप। याहि। यज्ञम्। वायो इति वायो। अस्मिन्। सवने। मादयस्व। यूयम्। पात। स्वस्तिभिरिति स्वस्तिऽभिः। सदा। नः॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) (नः) अस्माकम् (नियुद्भिः) निश्चितैर्मिश्रणामिश्रणैर्गमनागमनैः (शतिनीभिः) शतं बहूनि कर्माणि विद्यन्ते यासु ताभिः (अध्वरम्) अहिंसनीयम् (सहस्रिणीभिः) सहस्राण्यसंख्या वेगा विद्यन्ते यासु गतिषु ताभिः (उप) (याहि) प्राप्नुहि (यज्ञम्) सङ्गगन्तव्यं व्यवहारम् (वायो) वायुरिव बलवन् विद्वन्! (अस्मिन्) (सवने) उत्पत्त्यधिकरणे जगति (मादयस्व) आनन्दयस्व (यूयम्) (पात) रक्षत (स्वस्तिभिः) सुखैः सह (सदा) सर्वस्मिन् काले (नः) अस्मान्॥२८॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। विद्वांसो यथा वायवो विविधाभिर्गतिभिः सर्वान् पुष्णन्ति तथैव सुशिक्षया सर्वान् पोषयन्तु॥२८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे वायो! यथा वायुर्नियुद्भिश्शतिनीभिः सहस्रिणीभिर्गतिभिरस्मिन् सवने नोऽध्वरं यज्ञमुपगच्छति तथा त्वमेतमायाहि मादयस्व। हे विद्वांसो! यूयमेतद्विद्यया स्वस्तिभिर्नः सदा पात॥२८॥